________________
१. प्रमाणपरिच्छेदः ।
प्रकारकघटादिविशेष्यकबोधजनकवाक्यमस्य निष्कृष्टलक्षणमन्यत्सर्व पूर्वदर्शितदिशावसेयम् ॥ इति सप्तमभङ्गनिरूपणम् ॥
॥ अथ सप्तभङ्ग्यास्सकलादेशविकलादेशस्वभावानरूपणम् ॥
ननु स्याद्वाद केवलज्ञानयोस्सर्वार्थावभासकत्वं स्याद्वादिनामनुमतन्तन्न युज्यते स्याद्वादे सर्वत्र सप्तभङ्गीवाक्यमेव महावाक्यतया सम्पूर्णार्थविबोधकमनुमत, परमुक्तदिशा प्रतिपर्यायं सप्तविधधर्मपर्याप्तप्रकारकघट। दिविशेष्यकबोधजनकत्वं प्रत्येकं तत्तदर्मनिष्ठप्रकारका सप्तक निरूपितघटादिनिष्ठविशेष्यतानिरूपक बोधजनकत्व मेवास्याः प्रसिद्धिपद्धतिमश्चति न त्वेतञ्जन्यबोधेऽनन्तधर्मावभासनन्तदन्तरेणानन्तधर्मात्मकवस्त्ववभासनमपि नैव तथा च प्रमाणवाक्यत्वमप्यस्य न युज्यते । श्रुतप्रमाणेन यद्यनन्तधर्मात्मकं वस्तु परिच्छिद्येते भवेत्तदा तदैकदेशावबोधकनयात्मकज्ञान जनकत्वेन नयवाक्यत्वमपि प्रमाणापेक्षया नयत्वव्यवस्थितेः । यदा चानन्तधर्मात्मकवस्तुपरिच्छेदः श्रुतप्रमाणन्नभवति तदा परिमितानामेकद्वयादिधर्माणामेकदेशखमपि न व्यवस्थापयितं शक्यमिति नयवाक्यत्वमपि कथमस्यायुक्तियुक्तं स्यादिति चेत् एकधर्मबोधनद्वारा तदात्मना सकलधर्मावबोधकत्वलक्षण सकला देश स्वभावबलात्सप्तभङ्गया अनन्तधर्मात्मकवस्त्वव भासिप्रमाणात्मकज्ञानजनकत्वेन प्रमाणवाक्यत्वं तज्जन्यबोधविषयानन्तधर्मात्मकवस्त्वेकदेश एकद्वयादिकतिपयधर्म तदात्मकधर्म्यवगाहिनो ज्ञानस्य नयात्मकस्य विषयीभूतधर्मक्रमपतिपादकत्वलक्षण विकलादेशस्वभावबलादेकद्वयादिधर्मतदात्मक धर्म्यमा सिनयात्मकज्ञानजनकत्वेन नयवाक्यत्वमप्युपपद्यत इत्याशयेन सकलादेशविकलादेशस्वभावाभ्यां सप्तभङ्ग विभजते ।
पृ. २८ पं. ६ सेयमिति - अनन्तरोपदर्शिता मानसप्रत्यक्षस्येत्यर्थः । तत्र सकलादेशं लक्षयति ।
पृ. २८ प ७ तत्रेपि सकला देश स्वभावविकला देश स्वभावयोर्मध्यइत्यर्थः ।
पृ. २८ पं ७ प्रमाणप्रतिपन्नेति श्रुतप्रमाणपरिच्छिन्नेत्यर्थः । वस्तुन इत्यस्य प्रतिपादकमित्येद्धतटकप्रतिपत्तावन्वयः तृतीयस्थाने स्यादवक्तव्यएवेति