________________
२०६
जैनतर्कभाषा। भङ्गमुररीकृत्य आधास्त्रयः सकलादेशस्वभावाः अन्त्याश्चत्वारो विकलादेशस्वभावा इति श्री सिद्धसेनादयो मन्यन्ते, देवसूरयस्तु सप्तानामपि भङ्गानां प्रत्येकं सकलादेशस्वभावत्वं विकलादेशस्वभावत्वश्च प्रतिपन्नास्तन्मतं प्रतिगृह्येव प्रतिभङ्गमित्युक्तं। तत्रैकैकधर्मेण धर्मिपतिपादके एकैकस्मिन्मङ्गे योगपद्येनानन्तधर्मात्मकवस्तुविष. यकप्रतीतिजनकत्वं कथं नु नाम स्यादित्याकाङ्क्षानिवृत्तये ।
पृ. २८ पं. ८ कालादिभिरित्यादि-हेतुवचनम् , क दिभिरित्यस्यामेदोपचारादित्यत्राप्यन्वयः। कालादयोऽष्टावग्रे निरूपयिष्यन्ति एवमभेदवृत्तिप्राधान्याभेदोपचारावपि, अनन्तधर्मात्मकघटरूपवस्तुगतोल्लिख्यमानैकास्तित्वादिधर्मेण सह कालदिभिरष्टभिर्द्रव्याथिकनयादेशात्सर्वेषामेव घटगतानां नास्ति. त्वादिधर्माणामभेदवृत्तिप्राधान्यतः पर्यायार्थिकनयादेशाद्वस्तुतोऽन्योन्यभिन्नानां तेषामभेदवृत्तरसम्भवेऽभेदोपचारतो वा योगपद्येनैकास्तित्वादिप्रतिपादनद्वारा तदभिन्नाशेषधर्मप्रातिपादकत्वेनानन्तधर्मात्मकवस्तुनः प्रतिपादकं यद्वचनं तत्सकलादेश इत्यर्थः । विकलादेशं प्ररूपयति ।
पृ. २८ पं. ९ नयेति-नयेन संग्रहादिनयेन विषयीकृतस्य विषयताकुक्षीकृतस्य नयविषयस्येतियावत् वस्तुधर्मस्य अनन्तधर्मादिघटादिगतकास्तिस्वादिधर्मस्य, भेदवृत्तिप्राधान्यात् कालादिभिरष्टभिः पर्यायार्थिकनयादेशाद्घटादिगतानामन्येषां नास्तित्वादिधर्माणां भेदवृतिप्राधान्यम् । द्रव्यार्थिकनयादेशाद्भेदोपचारं वाऽऽश्रित्य क्रमेण प्रतिपादकं यस्य धर्मस्योल्लिख्यमानत्वं तस्य धर्मस्य प्रतिपादनमात्रेण तदात्मना घटादिप्रतिपादकं यद्वचनं तद्विचनं तद्विकलादेश इत्यर्थः । क्रमयोगपद्ये स्वरूपतोऽजानन् परः पृच्छति ।
पृ. २८ पं.११ नन्विति-विविच्य क्रमयोगपद्यस्वरूपोपदर्शनेनोत्तरयति । - पृ. २८ पं. ११ उच्यते इति-प्रथमं क्रमस्वरूपं निर्वक्ति ।
पृ. २८ पं. ११ यदा-एकशब्दस्य-अस्तीत्यादि अस्तित्वाधेकधर्मप्रति पादकसम्दस्य, योगपद्यं निरूपयति ।