________________
१. प्रमाणपरिच्छेदः । पृ. २८ पं.१४ यदा तु-तदात्मकताम्-उल्लिख्यमानप्रतिनियतास्तित्वाघेकधर्माभिन्नताम् , आपन्नस्य प्राप्तस्य । अन्यत्स्पष्टम् । कालादीनां स्वरूपमुपदर्शयितुं तत्र परजिज्ञासामुत्थापयति । के पुनःकालादय इति उत्तरयति ।
- पृ. २८ पं. १४ उच्यत इति-काल एकः द्वितीयमात्मरूपम् , अर्थस्तृतीयः, सम्बन्धश्चतुर्थः, उपकारः पञ्चमः, गुणिदेशः षष्ठः, संसर्गः सप्तमः, शब्दोऽष्टमः इत्येवंमष्टसंख्यकाः कालादय इत्यर्थः, तदुक्तं
कालात्मरूपसम्बन्धाः संसर्गोपक्रिये तथा । .
गुणिदेशार्थशब्दाश्च-त्यष्टौ कालादयः स्मृताः ॥१॥ इति तत्रास्तित्वाद्येकधर्मस्य नास्तित्वादिभिरन्यैर्धमैस्समं कालादिनामेदवृत्तिमुपपादयति ।
पृ. २८ पं. १८ तत्रेति-कालादिषु मध्य इत्यर्थः । पृ. २८ पं २० तेषाम्-धर्माणाम् ।
पृ. २८ पं. २० कालेनाभेदवृत्तिरिति-कालावच्छेदेन वस्तुनि घटादावस्तित्वादिधर्मस्य, प्रतीतेः वस्तुनिरूपितास्तित्वनिवृत्तितायां कालस्यावच्छेदकत्वं, तत्सम्बन्धिन एव तनिष्ठधर्मावच्छेदकत्वमितिनियमेन कालस्यास्तित्वादिधर्मसम्बन्धित्वमावश्यकं, कालेन सह धर्मस्यास्तित्वादेस्सम्बन्धःकालिकः । सोऽपि सर्वसम्बन्धव्यापककथश्चित्तादात्म्यव्याप्य इति कथञ्चित्तादात्म्यमपि कालेऽस्तित्वादेः सम्बन्धः, एवञ्च तदभिन्नाभिन्नस्य तदभिन्नत्वमितिनियमेन कथञ्चिदस्तित्वामिभकालाभिन्नकथश्चिन्नास्तित्वादिधर्माणां कथञ्चिदस्तित्वाभिन्नत्वमित्येवं कालेना मेदवृत्तिः अनयव दिशाऽऽत्मरूपादिनाऽमेदवृत्तिरपि बोध्येत्याशयः । आत्मरूपेणाभेदवृत्तिं दर्शयति । ...
पृ. २८ पं. २० यदेव-तद्गुणत्वम्-घटादिधर्मिगुणत्वम् । __पृ. २८ पं. २१ तदेव-घटादिगुणत्वमेव, आत्मरूपमिति सम्बध्यते अर्थनामेदवृत्तिं दर्शयति ।