________________
वयापा। .. पृ. २८ पं. २३ य एष-स एव-द्रव्याख्य एव आषारः । सम्बन्धेनामेचिमुपदर्शति ।
पृ. २८ पं. २५ य एव चाविष्वग्भाव:-कथश्चित्तादात्म्यम् ।
पृ. २८ पं. २५ स एव-अविष्वग्भाव एव सम्बन्धः उपकारात्मनाऽमेदवृत्ति निरूपयति ।
पृ. २८ पं. २५ य एव चोपकार इति-स एव-स्वानुरक्तत्वकरणलक्षण एवोपकारः, गुणिदेशरुपेणाभेदवृत्तिं दर्शयति ।
पृ. २८ पं. २६ य एव गुणिनः-स एव-क्षेत्रलक्षण एव गुणिनः सम्बन्धी देशः. संसर्गेणाभेदवृत्तिं निरूपयति ।
पृ. २८ पं. २८ य एव चैकवस्त्वात्मना-स एव-तादृगुपएव संसर्गः, सम्बन्धसंसर्गयोः कः प्रतिविशेष इति जिज्ञासायामाह ।
पू. २९ पं.१ गुणिभूतेति-यद्यप्यविष्वगभाव एव सम्बन्धः स एव च संसर्गः, तथापि तत्र मेदस्य गौणत्वेऽमेदस्य प्राधान्ये आस्थिते सति सम्बन्धत्वं तत्रैवामेदस्य गणत्वे भेदस्य प्राधान्ये विवक्षिते सति संसर्गत्वमित्यनयोर्भेद इत्या शयः । शब्देन भेदवृत्तिं भावयति ।
पृ. २९ पं. २ य एव चैकवस्त्वात्मना स एष-अस्तीति शब्द एव सर्वे सर्वार्थवाचका इति नियमादेकस्यापि शब्दस्य सवैरथैःसह वाचकभावसम्बन्धोऽस्ति तस्य व्यापकः कथञ्चित्तादात्म्यलक्षणसम्बन्ध इत्येवं दिशाऽपि शब्देनामेदवृत्तिरुपपद्यत एवेति बोध्यम्, सम्बन्धसंसर्गयोः प्रतियोग्यनुयोगिम्यामसम्बन्धयोने सम्बन्धत्वसंसर्गत्वे इति तयोः प्रतियोग्यनुयोगिभ्यां कस्यचित्सम्बन्धस्यावश्यकत्वे तद्वयापकस्यापि कथञ्चित्तादात्म्यसम्बन्धस्य तत्रावश्यकत्वं निरुक्तसम्बन्धसंसौं चाविशेषितौ सकलधर्मधर्मिगतावित्येषा दिगपि तद्वारकामेदवृत्ती भावनीयौ अस्यां प्रक्रियायां पर्यायनयस्य गुणभावे द्रव्यार्थंकनस्य सर्वत्राभेदमादिशतःप्राधान्यमिति तदवलम्बनेन कालादिभिरभेदचिप्राधान्यादित्युपदिश्यत इत्याह।