________________
१. प्रमाणपरिच्छेदः
पृ. २९ पं. ४ पर्यायार्थिकनयेति यदा च पर्यायार्थिकनयस्यैव प्राधान्यं द्रव्यार्थिकनयस्य च गुणभावमवलम्ब्य कालादिभिरेकधर्मेण सह तदन्याशेषध र्माणां भेदद्वारा सकलादेशत्वं विवक्ष्यते तदा पर्यायार्थिकन ये नास्त्य मेदप्राधान्यमिति तदुपचारत एव यौगपद्येनानन्तधर्मात्मकवस्तुप्रतिपादकत्वतः सकला देश स्वसम्भव इत्युपवर्णयितुं कथन्न तत्र कालादिभिरमेदसम्भव इत्याकाङ्क्षा निवर्त्तनाया ह
ર૧
पृ. २९ पं. ५ द्रव्यार्थिक गुणभावेनेति- -तत्र कालेना भेदवृत्तेर्न सम्भव इत्याह ।
पृ. २९ पं. ६ समकालमेकत्र - सम्भवे वा - समकालमेकत्र नानागुणानांसम्भवे वा -
पृ. २९ पं. ७ तदाश्रयस्य- नानागुणाधारस्य धर्मिणः पर्यायनये गुणानाभिन्नत्वे विभिन्नगुणाश्रयस्य भिन्नत्वमेव विरुद्धधर्माध्यासस्य मेदकत्वकल्पनापेक्षया विभिन्नधर्माध्यासस्य भेदकत्वमिति कल्पनैव लाद्यवाद्युक्तेति गुणानां भेदे तदाधारस्य तत्समानकालीनस्य भेदप्रसङ्गादित्यर्थः । पर्यायनये आत्मरूपेणाभेदवृत्यसम्भवमुपपादयति ।
पृ. २९ पं. ७ नानागुणानामिति.... अन्यथा - नानागुणानां सम्बन्धिन आत्मरूपस्य तद्गुणत्वलक्षणस्याभिन्नत्वे
पृ. २९ पं. ८ तेषाम् - गुणानां । तद्गुणत्वस्य सर्वत्राविशिष्टत्वाद्भिन्नत्वं न स्यादित्यनन्तधर्माणामभावेऽनन्तधर्मात्मकत्वमपि वस्तुनो वक्तुं न शक्येतेत्यर्थः । गुणानां भिन्नानामाधारोऽपि विभिन्न एवेत्याधारलक्षणार्थेनाभेदवृचिरपि नात्र घटत इत्याह ।
पृ. २९ पं. ९ स्वाश्रयस्येति - गुणाश्रयस्येत्यर्थः ।
पृ. २९ पं. ९ अन्यथा - गुणाश्रयस्य भिन्नत्वाभावे, एकस्मिन्नाश्रये एक एव गुण इति तत्र नियमेन नानागुणश्रयत्वं भेदमन्तरेण न स्यादित्यर्थः । सम्बन्धेनाभेदवृत्त्यसम्भवं पर्यायनये दर्शयति ।
२७