________________
जैनतर्कभाषा । पृ. २९ पं १० सम्बन्धस्य च-प्रतियोग्यनुयोगिभेदेन सम्बन्धभेदोऽन्यत्र दृश्यते। नहि भूतलघटयोर्यस्संयोगः स एव पर्वतवह्वयोरपि, तथाभ्युपगमे घट भूतलसंयोगोत्पत्तौ वह्निपर्वतसंयोगोऽप्युत्पद्येत, तद्विनाशे सोऽपि नश्येदितिप्रसङ्गो दुनिवारः स्यात् एवं नानाधमैस्समं घटादिधर्मिणोऽपि घटादे का सम्बन्धः किन्तु तत्तद्धर्मप्रतियोगिको घटाद्यनुयोगिको भिन्न एव सम्बन्ध इति तथादर्शनतः कल्प्यत इत्यर्थ ।
पृ.२९ पं. १० नानासम्बन्धिभिः-अस्तित्वनास्तित्वादिनानाधर्मेस्समं।
पृ. २९ पं. १० एकत्र-घटाद्यात्मकैकधर्मिणि। एकसम्बन्धाघटनात्-भेदविशिष्टाभेदात्मकाविष्वग्भावरूपसम्बन्धासम्भवात् । प्रायनये उपकारेणाभेदत्यसम्भवं कथयति ।
पृ.२९ पं. ११ तैरिति-अस्तित्वादिगुणैरित्यर्थः ।
पृ. २९ पं. १२ प्रतिनियतरूपस्य-स्वस्वानुरूपानुरक्तत्वकरणात्मकस्य, अस्तित्वप्रभव उपकारः अस्ति घट इत्येवंरूपेण घटस्यानुरञ्जनं तदात्मतयाऽभिव्यापनमित्येवं प्रतिनियतस्येति यावत् ।
पृ. २९ पं. १२ अनेकत्वात-विभिन्नत्वात् ।
पृ. २९ पं. १२ अनेकैरिति-नानारूपैरस्तित्वादिगुणलक्षणोपकारकर्जाय. मानस्य स्वानुरक्तत्वकरणोपकारस्याभिन्नस्य विशेषात नहि भवति दण्डस्य विशेषणत्वे दण्डीतिविशिष्टस्वरूपतानिष्पतिरेव कुण्डलादेरपि विशेषणत्वे, तदानीं कुण्डलीत्येवमेव विशिष्टस्वरूपनिष्पत्तेरित्यर्थः। तत्र गुणिदेशेनाभेदवृत्तिसम्भवमु. पपाददति ।
पृ. २९ पं. १३ गुणिदेशस्य चेति-प्रतिगुणं अस्तित्वादिप्रत्येकधर्ममाश्रित्या पृ. २९ पं. १४ तदभेदे-गुणानाभेदेऽपि गुणिदेशस्यैकस्यवभावे ।
पृ. २९ पं. १४ भिन्नार्थेति-यथा घटास्तित्वादिगुणानां भिन्नानामपि घटात्मकगुणिनो देशोऽभिन्न एव तथा स एव घटादिगतास्तित्वादिगुणानामपि स्यादित्यर्थः । संसर्गेणाभेदत्तिं तत्रापाकरोति ।