________________
१. प्रमाणपरिच्छेदः। पृ. २९ प. १४ संसर्गस्य चेति-अभेदसहिष्णुभेदलक्षणाविष्वग्भावस्य चेत्यर्थः।
पृ. २९ पं. १५ प्रतिसंसर्गिभेदात्-अन्यत्र संसर्गिभेदेन संसर्गभेददर्शनादत्रापि तथैव युक्तत्वात् ।।
पृ. २९ पं. १५ तदभेदे-संसर्गाभेदे भावना सम्बन्धदर्शिताऽवसेया तत्र शब्देनाभेदवृत्तिनिराकरोति ।
पृ. २९ पं १५ शब्दस्येति-अस्तित्वादिगुणवाचकास्तित्वादिशब्दस्य ।
पृ. २९ पं. १६ प्रतिविषयम्-अस्तित्वादिगुणलक्षणवाच्यमाश्रित्य वाच्यमेदेऽपि वाचकशब्दाभेदाभ्युपगमेऽनिष्टमापादयति ।
पृ. २९ पं. १६ सर्वगुणानामिति-उक्तदिशा पर्यायार्थनयादेशात्कालादिभिरभेदवृत्त्यसम्भवे एकगुणेन सह तदन्यगुणानामभेदोपचारःक्रियते । उपचारश्च गर्दमादितो भिन्नेऽपि विशिष्टज्ञानविकलमनुष्यादौ गर्दभाद्यभेदस्य दृश्यत एवेत्युपसंहरति ।
पृ. २९ पं. १७ कालादिभिरिति-विकलादेशनिर्वचने युक्तं भेदवृत्तिप्रा. धान्याद्भेदोपचाराद्वेति तत्रापि कालादिभिरष्टगुणानां भेदवृत्तिः, पर्यायनयप्राधान्यात् तैः पुनः द्रव्यार्थनयादेशाद्धेदवृत्त्यसम्भवाद्भेदोपचारःक्रियते, तत्र पर्यायनयादेशे गुणादिभिरभेदवृत्त्यसम्भव उपदर्शिता युक्तय एवमेदवृत्तिप्राधान्ये योजनीयाः। द्रव्याथिकनयादेशे गुणादिभिरभेदवृत्युपपादिकानीतिरेव भेदवृत्त्यसम्भवतो भेदोपचारे सङ्घटनीयेत्यतिदिशति । __ पृ. २९ पं. १८ एवमिति-ये च स्यादस्त्येव १ स्यानास्त्येव २ स्यादवक्तव्यमेवेतित्रयाणां सकलादेशत्वं, स्यादस्त्येवस्यानास्त्येवचेत्यादिचतुर्णा विकलादेशत्वमामनन्ति तेषां मते निरवययार्थप्रतिपादकमखण्डार्थप्रतिपादकलक्षणं सकलादेशत्वं, सावयवार्थप्रतिपादकत्वं सखण्डार्थप्रतिपादकत्वलक्षणं विकलादेशत्वम् , प्रतिभङ्गं सप्तभङ्गयास्सकलादेशत्वे प्रतिभङ्गं प्रमाणवाक्यरूपा सप्तभङ्गी, तस्याः प्रतिभङ्गं विकलादेशत्वे प्रतिभङ्गं नयवाक्यरूपा, मतान्तरे आद्यालयो भङ्गास्सकलादेशत्वात्प्रमाणवाक्यानि तदवच्छेन सप्तभङ्गया अपि सकलादेशत्वात्प्रमाणवाक्यत्वं, अन्त्याश्चत्वारो भङ्गा विकलादेशत्वानयवाक्यानि,