________________
बेनतर्कभाषा। तदवच्छेदेन सप्तभङ्गयपि तथा, तत्र प्रथमभङ्गः सङ्ग्रहनयात्प्रवर्तते, द्वितीयमङ्गो व्यवहारातृतीयभङ्गस्ताम्या, चतुर्थभङ्ग ऋजुसूत्रात् युगपत्सत्त्वासत्वयोरादेशे सङ्ग्रहव्यवहारयोस्तदविषयकत्वादसामर्थ्यात्, ऋजुत्रस्य तु तदविषयकत्वेऽपि संवृत्यैव तथापतिपत्तिसामर्थ्यसम्भवात् , पश्चमभङ्गस्यसङ्गहर्जुसूत्राभ्यांप्रवृत्तिः। षष्ठभङ्गस्य व्यवहारर्जुसूत्राभ्यां प्रवृत्तिः, सप्तमभङ्गस्यतु सङ्ग्रहव्यवहारर्जुसूत्रै रित्येवं सप्तभङ्गया नययोजना ज्ञेया । इति सप्तभङ्गीनिरूपणे आगमप्रमाणनिरूपणं परिपूर्णम् । परोक्षप्रमाणनिरूपणमुपसंहरति ।
पृ. २९ पं. १८ पर्यवसितम्-सम्पन्न परिपूर्णमिति यावत् ॥ इतिपरोक्षप्रमाणनिरूपणम् । प्रमाणनिरूपणमुपसंहरति। ततश्चेति-प्रत्यक्षपरोक्षाभ्यां द्विविधं प्रमाणमिति प्रतिज्ञातं, प्रत्यक्षपरोक्षयोश्च सप्रभेदयोः क्रमेण निरूपणे वृत्ते प्रमाणपदार्थोऽपि निरूपित एवेति ।।
॥ इतिजैनतर्कभाषाप्रमाणपरिच्छेदटीका ॥ ॥ अथ नयपरिच्छेदनामा द्वितीयः परिच्छेदः ॥
॥ अथ नयनिरूपणम् ॥ प्रमाणनयनिक्षेपैरित्यनेन प्रमाणनयनिःक्षेपाणां त्रयाणामुद्दिष्टत्वेऽपि प्रथम प्रमाणस्योद्देशात्तजिज्ञासाया एव प्रथममुत्थितत्वात्ततः प्रथमं प्रमाणे निरूपिते तजिज्ञासारूपप्रतिवन्धकोपशान्तेस्तदनन्तरमुद्दिष्टत्वेन निक्षेपनिरूपणतःप्राक् नयजिज्ञासाया एवोल्लासादिति । ततः प्रमाणनिरूपणानन्तरमवश्यवक्तव्यत्वलक्षणावसरसङ्गत्या नयनिरूपणमित्याशयमाविष्कुर्वन् श्रीमान् यशोविजयोपाध्यायो नयनिरूपणं प्रतिजानीते।
पृ. ३० पं.५ प्रमाणान्युक्तानि अथ नया उच्यन्ते-इति प्रमाणान्युकानीत्यनेन प्रमाणनिरूपणस्य वृत्तत्वकथनेन स्वविषयसिद्धिनिवायाः प्रमाणजिज्ञासाया नयनिरूपणप्रतिबन्धिकाया निवृत्तिरावेदिता । अथ-प्रमाणनिरूपणानन्तरम् अनेन चावसरसङ्गतिप्रतिपादनं नया-इत्यनेन निरूपणविषयस्याविष्कार, उच्यन्ते इत्यनेन तद्विषयकप्रतिपत्यनुकूलव्यापारलक्षणप्रतिज्ञाप्यावेदिता भवतीति नयान् लक्ष्यति ।