________________
१. प्रमाणपरिच्छेदः ।
९१३ पृ. ३० पं. ५ प्रमाणेति प्रमाणेत्यादिविशेषा इत्यन्तं लक्षणवचनं, नया इति लक्ष्यनिर्देश, नया इति बहुवचनतो यावन्तो वचनवादास्तावन्तो नया इति वचनाद्विशेषतो नयानामानन्त्यमित्यस्य संसूचनम् , ।
पृ. ३० पं. ५प्रमाणपरिच्छिन्नस्येति-अन्यत्र श्रुतप्रमाणपरिच्छिन्नस्येति निर्दिष्टत्वेऽपि अत्र प्रमाणसामान्याभिधानं स्याद्वादसंस्कारतःपुंसस्तबलात्प्रत्यक्षादिप्रमाणेऽपि स्वाद्वादार्थगतिरस्त्येवेति तथाविधप्रत्यक्षादिप्रमाणपरिच्छिन्नत्वमप्यनन्तधर्मात्मकवस्तुन इत्यावेदनाय, अत एव सप्रपञ्चप्रत्यक्षपरोक्षस्वरूपतया प्रमाणनिरूपणमपि सङ्गच्छते, अन्यथा केवलज्ञानसकलादेशात्मकवचनयोरेवप्रमाणतयाऽभिधानमेव न्याय्यं भवेदिति बोध्यम् ।
पृ. ३० पं ६ एकदेशग्राहिणा-प्रधानतयाऽनन्तधर्मात्मकवस्तुनरशरीरसनिविष्टत्वेनैकदेशस्यावयवरूपस्यास्तित्वादितत्तद्धर्मस्य ग्राहकाः, प्रधानतयेतिपूरणाद्गौणतया तदन्यदेशग्राहिण इत्यपि लभ्यते, अत एव च यावतामेव वस्तुध र्माणां प्रधानतयाऽवगाहकात्प्रमाणादस्य भेदः अन्यथा समग्रग्राहिणः प्रमाणस्य तदन्तस्सन्निविष्टैकदेशग्राहित्वमस्त्येवेति प्रमाणेऽप्येतल्लक्षणमतिव्याप्तं स्यात्, एकदेशमात्रग्राहिण इत्युक्तयाऽपि प्रमाणेऽतिव्याप्तेरिणसम्भवेऽपि यथाश्रुतस्य न कुत्रापि सन्नये सत्वं सन्नयस्य गौणतयाऽभिमतग्राह्येकदेशभिन्नैकदेशग्राहित्वस्यापि भावादित्यसम्भवस्स्यादिति तद्वारणार्थ प्रधानतयेत्यस्यावश्यमुपादेयत्वात् दुर्नया अप्येकदेशग्राहिण इति तेष्वतिव्याप्तिवारणाय
पृ. ३० पं. ६ इतरांशाप्रतिक्षेपण इति-दुर्नयाश्च अन्योन्यप्रतिपक्षा:इ. तरांशानप्रतिक्षिपन्त्येवेति न तेष्वतिव्याप्तिः, नयास्तु स्वविषयातिरिक्तविषये गजनिमीलिकामेवावलम्बन्त इतिभवन्ति इतरांशाप्रतिक्षेपिणः।
पृ. ३० पं. ७ अध्यवसायविशेषाः-प्रमातुरभिप्रायभेदाः, एतेन ये एक देशं गृह्णन्ति इतरांशश्च न प्रतिक्षिपन्ति ते स्वरूपानुपलम्भा न सन्त्ववेत्याशङ्का व्युदस्ता, ईदृशानां सङ्ग्रहादिस्वरूपाणामभिप्रायभेदानां स्वसंवेदनसिद्धत्वेनानुपलम्भाभावादित्याशयः । नया एव च मतशब्देनोच्यन्ते, यतः कचिन्मत इति वक्तव्ये नय इति व्यपदिश्यते, यथा एवं न्यायनयज्ञैरिति प्रामाण्यं, गौतमे मते