________________
२१४
बैनतर्कभाषा इत्यत्र गौतमे नये इत्यपि वक्तुं शक्यते, एकैकस्मिन्नपि दर्शने यानि विमिन्नानि मतानि इदम्पाचाम्मतमिदं नव्यानाम्मतं स्वतन्त्राणाश्चेदम्मतं जगदीशमतं गदा धरमतमिति दृश्यन्ते तानि सर्वाणि नयस्वरूपाण्येवोपलभ्यन्ते परमितरांशप्रतिक्षेपित्वात्सुनया न भवन्ति, प्राचाम्मतमितिवक्तव्ये प्राचामिष्टमित्येवमभ्युपलम्मत एव अभिप्रायश्चेच्छाविशेष एवेति नयस्याभिप्रायरुपताऽपि नानुपलब्धिबाधिता, इच्छा च जैनमते ज्ञानविशेष एव नतु नैयायिकमत इव ज्ञानभिन्नो गुण इति अभिप्रायविशेषरूपाणां नयानामध्यवसायविशेषत्वं सुसङ्गतमेवेति निरुपद्रवमिदं लक्षणमिति बोध्यम् । ननु यद्येवं नया उक्तदिशा ज्ञानविशेषा एव तदा स्वपरसंवेदनरूपत्वा. त्प्रमाणत्वमप्येषां सम्भवेदेवेतिप्रमाणभिन्नतयैषाम्मननमसङ्गतमित्याशङ्काशङकु. समुद्धरणायाह ।
पृ. ३० पं.७ प्रमाणैकदेशत्वादिति-यथा प्रत्येकमस्तित्वादयो धर्मा नयविषया अनन्तधर्मात्मकवस्त्वेकदेशा एव, प्रमाणैकदेशत्वाच्च ।
पृ. ३० पं. ७ तेषाम्-नयानाम् पं. ३० पं. ७ ततः-प्रमाणात्
प. ३० पं. ७ भेदः-पृथग्भावः, समुदितस्वरूपादेकदेशस्य पृथग्भावमनु. गुणदृष्टान्तेन दृढयति ।
पृ. ३० पं. ८ यथेति-अनेन दृष्टान्तोपदर्शनेन परस्परविरोधे हि न प्रकारान्तरस्थितिरितिन्यायात, नयानां प्रमाणत्वे पृथगुपन्यासो व्यर्थः, प्रमाणभिन्नत्वेप्रमाणत्वान्न ततो वस्त्वंशसिद्धिरिति न वस्तुसाधनाङ्गत्वमितिशङ्काऽपि व्युदस्ता, समुद्रकदेशस्य न समुद्रत्वमिति समुद्रभिन्नत्वेऽपि नासमुद्रत्वं किन्तु समुद्रांशत्वमेव तथा नयानां प्रमाणभिन्नत्वेऽपि नाप्रमाणत्वं किन्तु प्रमाणेकदेशत्वमेव, तदुक्तं
नाप्रमाणं प्रमाणं वा नयो ज्ञानात्मको मतः । स्यात्प्रमाणकैदेशस्तु सर्वथाप्यविरोधतः ॥१॥