________________
प्रमाणपरिच्छेदः
नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः ।
नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥ २॥ इति । अथ नयान् विभजते ।
पृ ३० पं. ९ ते चेति-नयाश्चेत्यर्थः, द्रव्यार्थिको नयः पर्यायार्थिको नय इत्येवं नया द्विविधा इत्यर्थः । द्रव्यार्थिकनयं लक्षयति ।
पृ. ३० पं. १० तत्रेति-द्रव्यार्थिकपर्यायार्थिकयोर्मध्य इत्यर्थः, प्राधान्येन द्रव्यमात्रग्राहीतिलक्षणं द्रव्यार्थिक इति लक्ष्यम् , प्राधान्येनेत्युपादानागौणतया पर्यायग्राहित्वमपि लभ्यते तेन पर्यायाप्रतिक्षेपित्वावगतितो द्रव्यार्थिकाभासातिव्याप्तिव्युदासः, मात्रपदोपादानाच प्रमाणातिव्याप्तिनिरासः, गौणतया पर्यायग्राहिणि सामान्यतो द्रव्यमात्रग्राहित्वं न स्यादेवेत्य सम्भवस्स्यात्तद्वारणाय प्राधान्येनेति । पर्यायार्थिकनयं लक्षयति ।
पृ. ३० पं.१० प्राधान्येनेनि-प्राधान्येन पर्यायमात्रग्राहीति लक्षणनिर्देशः, पर्यायाथिक इति लक्ष्यनिर्देशः, अत्राप्यसम्भववारकं प्राधान्येनेति प्रमाणेऽतिव्या. प्तिवारकं मात्रेति, प्राधान्येनेतिविशेषणमहिम्ना नयसामान्यलक्षणानुगममहिम्ना वा लब्धादितरांशाप्रतिक्षेपित्वात्पर्यायामासातिव्याप्तिवारणम् । इति द्रव्यार्थिकसामान्यलक्षणकथनम् । द्रव्यार्थिकनयं विभजते ।
पृ. ३० पं. ११ तत्रेति-द्रव्यार्थिकपर्यायार्थिकयोर्मध्य इत्यर्थः ।
पृ. ३० पं. ११ द्रव्यार्थिक इति-नैगमः संग्रहः व्यवहारश्चेत्येवम्मेदात्रि प्रकारो द्रव्यार्थिक इत्यर्थः, । पर्यायाथिकनयं विभजते ।
पृ. ३० पं १२ पर्यायार्थिक इति-ऋजुमूत्रः. शब्दः, समभिरूढः, एवम्भूतः, इत्येवंभेदाच्चतुःप्रकारः पर्यायाथिक इत्यर्थः उभयसङ्कलने नयास्सप्ते. तिफलितम् । ऋजुत्रस्य पर्यायार्थविशेषतयाऽभिधान सिद्धसेनादिमतमाश्रित्य, पूज्यश्रीजिनभद्रगणिक्षमाश्रमणमते तस्य द्रव्यार्थिकत्वमेव तन्मते द्रव्यार्थिका नैगमसङ्गहव्यवहारर्जुसूत्राश्चत्वारो नयाः, पर्यायार्थिकाः शब्दसमभिरूंढवम्भूतास्त्रयो नयाः। नैगमस्य सिद्धसेनमते सामान्यग्राहिणः सङ्गग्रहे, विशेषग्राहिण: