Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 228
________________ १. प्रमाणपरिच्छेदः । ९१३ पृ. ३० पं. ५ प्रमाणेति प्रमाणेत्यादिविशेषा इत्यन्तं लक्षणवचनं, नया इति लक्ष्यनिर्देश, नया इति बहुवचनतो यावन्तो वचनवादास्तावन्तो नया इति वचनाद्विशेषतो नयानामानन्त्यमित्यस्य संसूचनम् , । पृ. ३० पं. ५प्रमाणपरिच्छिन्नस्येति-अन्यत्र श्रुतप्रमाणपरिच्छिन्नस्येति निर्दिष्टत्वेऽपि अत्र प्रमाणसामान्याभिधानं स्याद्वादसंस्कारतःपुंसस्तबलात्प्रत्यक्षादिप्रमाणेऽपि स्वाद्वादार्थगतिरस्त्येवेति तथाविधप्रत्यक्षादिप्रमाणपरिच्छिन्नत्वमप्यनन्तधर्मात्मकवस्तुन इत्यावेदनाय, अत एव सप्रपञ्चप्रत्यक्षपरोक्षस्वरूपतया प्रमाणनिरूपणमपि सङ्गच्छते, अन्यथा केवलज्ञानसकलादेशात्मकवचनयोरेवप्रमाणतयाऽभिधानमेव न्याय्यं भवेदिति बोध्यम् । पृ. ३० पं ६ एकदेशग्राहिणा-प्रधानतयाऽनन्तधर्मात्मकवस्तुनरशरीरसनिविष्टत्वेनैकदेशस्यावयवरूपस्यास्तित्वादितत्तद्धर्मस्य ग्राहकाः, प्रधानतयेतिपूरणाद्गौणतया तदन्यदेशग्राहिण इत्यपि लभ्यते, अत एव च यावतामेव वस्तुध र्माणां प्रधानतयाऽवगाहकात्प्रमाणादस्य भेदः अन्यथा समग्रग्राहिणः प्रमाणस्य तदन्तस्सन्निविष्टैकदेशग्राहित्वमस्त्येवेति प्रमाणेऽप्येतल्लक्षणमतिव्याप्तं स्यात्, एकदेशमात्रग्राहिण इत्युक्तयाऽपि प्रमाणेऽतिव्याप्तेरिणसम्भवेऽपि यथाश्रुतस्य न कुत्रापि सन्नये सत्वं सन्नयस्य गौणतयाऽभिमतग्राह्येकदेशभिन्नैकदेशग्राहित्वस्यापि भावादित्यसम्भवस्स्यादिति तद्वारणार्थ प्रधानतयेत्यस्यावश्यमुपादेयत्वात् दुर्नया अप्येकदेशग्राहिण इति तेष्वतिव्याप्तिवारणाय पृ. ३० पं. ६ इतरांशाप्रतिक्षेपण इति-दुर्नयाश्च अन्योन्यप्रतिपक्षा:इ. तरांशानप्रतिक्षिपन्त्येवेति न तेष्वतिव्याप्तिः, नयास्तु स्वविषयातिरिक्तविषये गजनिमीलिकामेवावलम्बन्त इतिभवन्ति इतरांशाप्रतिक्षेपिणः। पृ. ३० पं. ७ अध्यवसायविशेषाः-प्रमातुरभिप्रायभेदाः, एतेन ये एक देशं गृह्णन्ति इतरांशश्च न प्रतिक्षिपन्ति ते स्वरूपानुपलम्भा न सन्त्ववेत्याशङ्का व्युदस्ता, ईदृशानां सङ्ग्रहादिस्वरूपाणामभिप्रायभेदानां स्वसंवेदनसिद्धत्वेनानुपलम्भाभावादित्याशयः । नया एव च मतशब्देनोच्यन्ते, यतः कचिन्मत इति वक्तव्ये नय इति व्यपदिश्यते, यथा एवं न्यायनयज्ञैरिति प्रामाण्यं, गौतमे मते

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332