________________
१. प्रमाणपरिच्छेदः।
१७७ पृ. २२ पं. २४ नाद्यापि पक्षनिर्णयः-प्रारब्धकथातः प्रागव्यवहितपूर्वकाले साधनीयसाध्यविशिष्टधर्मिविशेषनिर्णयो नास्ति, तेनैतत्कथानुपयुक्तसमये यत्किञ्चिद्धर्मविशिष्टधर्मिसाधनावसरे च तद्धर्मविशिष्टधर्मनिर्णयेऽपि न क्षतिः ।
पृ. २२ पं. २५ तम्प्रति-तम्प्रतिवादिनमुद्दिश्य ।
पृ. २२ पं. २५ पक्षोऽपि-प्रयोज्य इति सम्बद्धयते, अपिना हेतोः सङ्ग्रहः पक्षहेतू प्रयोज्यावित्यर्थः। मन्दमतिरपि मन्दातिमन्दातिमन्दतममतिभेदेन त्रिविध स्तत्र प्रथममधिकृत्याह ।
पृ. २२ पं. २५ यस्त्विति प्रमाणस्य-स्मृत्यर्थकधातुयोगे कर्मणि षष्ठी, षष्ठयन्तविशेष्यवाचकपदसममिव्याहृतस्य विशेषणवाचकप्रतिबन्धकग्राहिण इत्यस्यापि षष्ठ्यन्तत्वं, तथा च यो मन्दमतिः प्रतिवादी दृष्टान्तवचनातिरिक्तेन न केनचित् प्रतिबन्धग्राहितर्कप्रमाणविषयकस्मरणवान् ।
पृ. २२ पं. २६ तं प्रति-तम्प्रतिवादिनमुद्दिश्य ।
पृ. २२ पं. २६ दृष्टान्तोऽपि-प्रयोज्य इत्यनुवर्तते, अपिना पक्षहेत्वोर्ग्रहणं तथा च तम्प्रतिवादिनम्प्रति पक्षहेतुदृष्टान्तवचनानि प्रयोक्तव्यानीत्यर्थः । अति. मन्दमतिप्रतिवादिनमधिकृत्याह ।
पृ. २२ पं. २६ यस्त्विति दार्टीन्तिके-पक्षे उपनयोऽपीत्यत्रापि प्रयोज्यइत्यस्य सम्बन्धः । अपिना पक्षहेतुदष्टान्तानामुपग्रहः, तथाच तं प्रतिपक्षहेतु. दृष्टान्तोपनयाः प्रयोक्तव्याः । अतिमन्दतममतिमधिकरोति ।
पृ. २२ पं. २७-एवमपीति-पक्षादिवचनचतुष्टयप्रयोगेऽपीत्यर्थः।
पृ. पं. २७ साकाङ्क्ष प्रति-एतावता किं जातमित्याकाङ्क्षाशालिनम्प्रति वादिनम्प्रति, चः समुच्चये स च निगमनमित्यनन्तरं योज्यः, समुच्चयश्च प्रतिज्ञा हेतूदाहरणोपनयानां, तथा च तम्प्रति प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चाप्यवयवाः प्रयोक्तव्याः, नैतावता नैयायिकेनास्मदभिमतपञ्चावयवात्मकपरार्थानुमानसिद्धिरिति सन्तोष्टव्यं, ततोऽधिकानामप्यवयवानां प्रतिवादिविशेषमधिकृत्या. वश्यम्प्रयोक्तव्यात्वादित्याह ।
२३