________________
१४८
जैनतर्कभाषा ।
रुद्धमूर्खत्वाभावसाधकमूर्खत्वाभावव्याप्यशास्त्रज्ञत्ववत्तापरामर्शकालीनमूर्खत्वव्याप्यतत्पुत्रत्ववत्तापरामर्शविषयस्तत्पुत्रत्वहेतुस्सप्रतिपक्ष इति बोध्यम् । ___ पृ. १८. पं. ३ अतिप्रसङ्गवारणाय-बाधितसत्प्रतिपक्षहेत्वोरलक्ष्ययोस्सद्धेतुलक्षणस्यातिव्याप्तेर्वारणाय, प्रागुक्तरूपत्रयं पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वलक्षणरूपत्रयम् , नैयायिकमतखण्डने हेतुमाह ।
पृ. १८. पं. ५ उदेष्यतीति-अत्र कृतिकोदयहेतौ पक्षस्य कस्यचिदभावादेव पक्षधर्मत्वस्यासिद्भया पक्षधर्मत्वघटितपश्चरूपत्वं सद्धेतुलक्षणं नास्तीति लक्ष्ये तस्मिन्नुक्तसद्धेतुलक्षणस्याभावादव्याप्तिरित्यर्थः । अलक्ष्येऽपि तत्पुत्रत्वादिलक्षणदुष्टहेतावेतल्लक्षणमस्तीत्यतिव्याप्तिरप्यत्र दोष इत्याह ।
पृ. १८. पं. ६ स श्याम इति-मित्रानाम्नी काचिदङ्गना । तस्याः पश्चपुत्रा बभूवुः तत्र चत्वारः श्यामरूपवन्तः एकस्तु पञ्चमो गौरः, तं गौरं पक्षीकृत्य मित्रापुत्रत्वेन हेतुना श्यामत्वं कश्चित्साधयन् स श्यामः तत्पुत्रत्वादित्यादिन्यायं प्रयुक्ते, अत्र तत्पुत्रत्वहेतौ पक्षसत्त्वादीनि पश्चापि रूपाणि विद्यन्ते परन्नायं सद्धेतुः शाकपाकजत्वस्य श्यामत्वलक्षणसाध्यव्यापकस्य तत्पुत्रत्वलक्षणहेत्वव्यापकस्योपाधेस्सत्त्वेन. सोपाधिकत्वाद्वयाप्यत्वासिद्धिलक्षणदोषाक्रान्तत्वेन हेत्वाभास इति अलक्ष्ये तत्र लक्षणगमनादतिव्याप्तिरिति न निरुक्तपश्चरूपोपपनत्वं हेतुलक्षणमित्यर्थः। एवञ्च परोक्तहेतुलक्षणे प्रत्याख्याते सति स्वाभिमताया निश्चितान्यथानुपपत्तेरेकस्या एव सर्वसद्धेतुगतत्वादुष्टहेत्ववृत्तित्वाच लक्षणत्वमुचितमित्याह निश्चितेति ॥
। इति हेतुस्वरूपनिरूपणम् ।
॥ अथ साध्यस्वरूपनिरूपणम् ॥ - साध्यस्वरूपं निरूपयितुं तन्निरूपणानुकूलामुपोद्घातसङ्गतिमुपजीवन परशङ्कामुत्थापयति । : पृ. १८. पं. १० ननु...तत्र-अनुमानविषयीभूते साध्येऽवश्यवक्तव्ये सति, लक्षणाधीनालक्ष्यव्यवस्थितिरिति न हि साध्यस्य लक्षणमप्रदर्थ साध्यख