________________
१. प्रमाणपरिच्छेदः। पृ. १७. पं. २८ सुधीभिरिति-एतेन पक्षपाताचान्तस्वान्ताः कुधिय एव तैरयथावद्विचारणेन परपक्षस्य समर्थनेऽपि क्षतिरिति । सिद्धे चोक्तदिशा पक्षधर्मताया अनुमित्यनङ्गत्वे हेतोःपक्षधर्मत्वोपपादनायाननुभूयमानप्रकारेण पक्षसाध्यहेतुघटितप्रयोगविन्यासः परस्यायासमात्रफलक एव तथा व्यवस्थापिते हेतोरन्यथानुपपत्त्यैकलक्षणत्वेन नैयायिकस्य पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्वैतद्वौद्धो. क्तत्रिरूपसहितस्याबाधितत्वासत्प्रतिपक्षितत्वलक्षणरूपद्वयस्यानुमित्यङ्गत्वसमर्थनेन पाञ्चरूप्यस्य हेतुलक्षणत्वमित्यभिधानमप्यपहस्तितम्भवतीत्याशयेनाह
पृ. १७. पं. २८ इत्यश्चेति-पक्षधर्मत्वाभावेऽपि उदेष्यति शकटं कृत्तिकोदयादित्याद्यनुमानदर्शनेन पक्षधर्मत्वस्यानुमित्यनङ्गत्वव्यवस्थितौ चेत्यर्थः । पक्वान्येतानीत्यादिहेतुलक्षणमित्यन्तं नैयायिकमतगुम्फनम् , अत्र एतानि सहकारफलानि पक्वानि इति प्रतिज्ञा, एकशाखाप्रभवत्वादिति हेतुः, यद्यदेकशाखाप्रभवं तत्तत्पक्वं यथोपयुक्तसहकारफलमित्युदाहरणं, एकशाखाप्रभवाणि चैतानि सहकारफलानीत्युपनयः, तस्मात्पक्कानीतिनिगमनम्, नैयायिकैः पञ्चावयवानामुपगमात्तन्मतोपदर्शने पश्चाप्यवयवाः प्रयोक्तव्या इत्यावेदनायादावित्युक्तम् ।
पृ. १८. पं. २ बाधितविषये-बाधितःविषयस्साध्यं यस्य हेतोरेकशाखाप्रभवत्वस्य स बाधितविषयः तस्मिन् , अस्य अतिप्रसङ्गवारणायेत्यत्रातिप्रसङ्गेऽन्वयः। बाधश्च साध्याभाववान् पक्षः, प्रकृते अपक्वान्येवाम्रफलानि पक्षीकृत्य तत्र पक्वत्वं साध्यत इति साध्याभाववान् पक्षः समस्तीति एकशाखाप्रभवत्वहेतुर्वाधितविषयः। _ पृ. १८. पं. २ मूग्र्योऽयमिति-अत्र अयं देवदत्त इति पक्षः, मूर्ख इति मूर्खत्वं साध्यम् , तत्पुत्रत्वात् चैत्रपुत्रत्वादिति चैत्रपुत्रत्वं हेतुः, इतरतत्पुत्रवत् देवदत्तभिन्नचैत्रपुत्रवदिति दृष्टान्तः इत्यादावित्युपादानादत्रापि पञ्चावयवा उपलक्षिता भवन्ति ते चोपदर्शिता भावनीयाः। अत्र नव्यनैयायिकमते साध्याभावव्याप्यवान् पक्षः सत्प्रतिपक्ष इति लक्षणानुसारान्मूर्खत्वाभावव्याप्यशास्त्रज्ञत्ववान्देवदत्त इति सत्प्रतिपक्षः, स्वसाध्यविरुद्धसाध्याभावसाधकसाध्याभावव्याप्यवत्तापरामर्शकालीनसाध्यव्याप्यवत्तापरामर्शविषयः प्रकृतहेतुः सत्प्रतिपक्ष इति पाचीनमते तु, अयं न मूर्खः शास्त्रज्ञत्वादिति प्रतिस्थापनानुमाने सति मूर्खत्ववि