________________
अनतर्कभाषा। ाप्तिरेव न भवति नातोऽस्यास्साध्यप्रत्यायनशक्तिरपि साध्यप्रत्यायनशक्तिमाबिभ्राणाया अन्तप्तिस्सकाशात्स्वरूपत एव भिन्नेयं न स्वगतभेदे विषयभेदमपेक्षते, सार्वत्रिकीत्वन्तर्व्याप्तिस्साध्यसमानाधिकरण्यमपि स्वरूपाव्यभिचारात्मकस्वशरीरे प्रवेशन्त्यपि तत्रोदासीनैव, नियमांशमात्रत एव स्वकार्यजनकत्वादिति हेतुव्यापकसाध्यसामानाधिकरण्यरूपतां बिभ्राणाऽपि सा नियमांशविनिर्मुक्तमाध्यसहचारमात्रस्वरूपबहिर्व्याप्तितस्स्वरूपतो भिन्ना भवत्येवेत्यावेदितम् । - पृ. १७. पं. २६ न चेदेवं-स्वरूपतोऽन्ताप्तिवहिव्याप्त्यो दो नाभ्यु. पगम्यते चेत् , किन्तु अन्तर्व्याप्तौ पक्षस्य सन्निविष्टत्वात्तद्ग्रहे पक्षस्य धर्मितया भानमित्यतोऽनुमितौ धर्मितया पक्षस्य मानमेतावतैव न हेतोः पक्षधर्मताऽपेक्षेत्येव यदि स्वीक्रियते ।
पृ. १७. पं. २६ तदाऽन्तर्व्याप्तिग्रहकाल एष एव-यदा सर्वोपसंहरेण साध्यहेतोर्व्याप्तिग्रहणं तत्काले तस्मिन्व्याप्तिग्रह एव ।
पृ. १७ पं. २६ पक्षसाध्यसंसर्गभ नादिति-अस्य प्रागेव "विनापर्वतो वह्निमानित्युद्देश्यप्रतीति" इत्युत्तरग्रन्थ आकर्षणीयः तथा चोक्तव्याप्तिग्रह एव पर्वतो वह्निमानित्युद्देश्यप्रतीतिं विनाऽपि पक्षसाध्यसंसर्गभानात् ।।
पृ. १७. पं. २७ अनुमानवैफल्यापत्तिः-पर्वतो वह्निमानित्यनुमितेबैंकल्यं स्यात् , अनुमित्यापि पक्षसाध्यसंसर्ग एव बोधनीयः। स चान्तर्व्याप्तिग्रहेण बोधित एवेत्यर्थः । अस्मत्पक्षो युक्तः पूर्वपक्षो वेत्यत्र स्वस्वशास्त्रनिष्णाताः कृतबुद्धयस्सुधिय एव प्रमाणं तैर्यथा भावयिष्यते तथाऽस्माभिरपि विचारणीयमेवावधारणीयमेव वेतिग्रन्थगौरवभयान्नात्र विचारसम्भारः प्रकटीक्रियते पक्षधर्मता तु नानुमितावङ्गमित्येतत्प्रसिध्येव कृतकृत्या वयमित्याशयेनाह। .
पृ. १७. पं. २८ यथातन्त्रमिति-स्वसिद्धान्तमनतिक्रम्येत्यर्थः, तथा चापसिद्धान्ताद्विभ्यतां सुधियाममद्दर्शितयुक्तिमार्ग एवानुभवपथमागमिष्यतीत्यभिप्रायः।
पृ. १७. पं. २८ भावनीयम्-विचारणीयम् , तथा चापाततः परपक्षस्य प्रथमं बुद्धौ भासनेऽपि विचारतो बाध्यमानत्वादनुपादेयत्वमेवेत्याशयः ।