________________
१. प्रमाणप। रच्छेदः ।
१४५
पृ. १७. पं. १९ पक्षीयसाध्यसाधनसम्बन्धग्रहादिति-अन्यथा पक्षीय साध्यसाधनसम्बन्धस्यैवान्तर्व्याप्तिरूपत्वेन तत्र तृतीयार्थान्वयानुपपत्तिः स्यात्, अथवा पक्षीयसाध्यसाधन सम्बन्धग्रहो ऽन्तव्याप्तिग्रहपर्यवसितः विषयिण चोक्तग्रहे विषयस्य चान्तर्व्याप्त कारणत्वविवक्षया तृतीयोपपत्तिः, पक्षीयसाध्यसाधनसम्बन्धस्यान्तर्व्याप्तित्वे स्याद्वादरत्नाकरसूत्रं प्रमाणयति ।
पृ. १७. पं. २० तदुक्तमिति - व्याप्तेरन्तरितिविशेषणं तदैव साफल्यमति यद्यन्यागपि व्याप्तिस्स्यात्, अस्ति चेत्का सा, किञ्चित्तलक्षणमित्यनुयोगे बहिर्व्याप्तिस्सा दृष्टान्त एव विषये साध्यसाधनयोर्व्याप्तिर्बहिर्व्याप्तिरिति तल्लक्षणमितिप्रासङ्गिकविचारमवलम्ब्य स्याद्वादरत्नाकरसूत्रं बहिर्व्याप्तिलक्षणप्रकाशकमुपदर्शयति ।
पृ. १७. पं. २१ अन्यत्र तु बहिर्व्याप्तिरिति - अन्यत्र पक्षीकृताद्भिने दृष्टान्त इति यावत्, यद्ग्रहणं पक्ष एव भवति साऽन्तर्व्याप्तिर्यद्ग्रहणं पक्षबहिभूटान्त एव भवति सा बहिर्व्याप्तिरितिग्रहणे पक्षान्तर्भाववहिर्भावकृतो नान्त
प्तिवहिर्व्याप्योर्भेदः, किन्तु साध्यवदन्यावृत्तित्वादिलक्षणा व्यभिचारस्वरूपाऽन्तर्व्याप्तिः सा यदि पक्षेऽपि हेतुसाध्ययोस्तच्चम्भवेत्तदेव स्यादित्येतावन्मात्रोपदर्शनार्थमेव पक्षीकृत एवेत्यादितल्लक्षणप्रणयनं सूरेः, बहिर्व्याप्तिस्तु नाव्यभिचारः किन्तु साध्यहेत्वोः सामानाधिकरण्यमात्रं तच्च पक्ष भन्ने दृष्टान्तमात्रे साध्यहेत्वोसद्भावत उपपद्यते इत्येतावन्मात्र परमेव, अन्यत्र तु बहिर्व्याप्तिरितितल्लक्षणप्रणयनं, न तु तयोर्व्याप्त्योर्विषयभेदख्यापनार्थं तत्, सार्वत्रिकत्वमन्तरेण व्याप्तेस्स्वरूपलाभस्यैवासम्भवेन विषयभेदप्रयुक्त भेदस्य तत्रासम्भवात् तथा च स्वरू पप्रयुक्तान्यभिचारलक्षणैवैका व्याप्तिर्वास्तविकी अन्यात्वौपाधिक्येवेत्येवोक्त मंत्ररहस्यमित्याशयेन प्रदर्शितमतम्प्रतिक्षिपति ।
>
૧૯
पृ. १७. पं. २२ तन्न, अन्तर्व्याप्त्या यदा च स्वरूप एवान्तर्व्याप्तिबहिर्व्यायोर्भेदो न तु विषयभेदकृतः, तदाऽन्तर्व्याप्तिशरीरे पक्षस्याप्रविष्टत्वात्तद्ग्रहे न पक्षस्य धर्मितया भानमिति नान्तर्व्याप्तिग्रहीया धर्मिविषयताऽनुमितौ धर्मिविषयतायाः प्रयोजिकेति क्वचिदन्यथानुपपच्यवच्छेदकतयेत्यादिदिगेवास्मद्दशिंताऽवलम्बनीयेत्याशयः । सहचारमात्रत्वस्येत्युक्त्या वस्तुस्थित्या बहिर्व्याप्ति