________________
१४४
नसकमाषा। धर्मिणो भानमितिनियामकाभावान्न स्यादितिनियतधर्मिभानान्यथानुपपल्या पक्षधर्मताऽवश्यमुपेयेत्याशयेन पर आह ।
पृ. १७. पं. १३ ननु...तत्र-अनुमितौ, पक्षधर्मत्वस्यानङ्गत्वेऽपि यद्धर्म्यवच्छेदेन हेतोस्साध्यं विनाऽनुपपत्तिः प्रतिसन्धीयते यद्धर्मिणि हेतोग्रहणं वा साध्यानुमितिं जनयितुमलं, तस्य धर्मिणोऽनुमितौ धर्मितयाभानमित्येवं प्रतिनियतधर्मिभाननिर्वाहादिति ग्रन्थकृदाह ।
पृ. १७. पं. १४ क्वचिदिति-अन्यथानुपपत्तिलक्षणव्याप्त्यवच्छेदकतया यस्य धर्मिणो ग्रहणं तस्यानुमितौ धर्मितया भानमित्युदाहरति ।
पृ. १७, पं. १५ यथेति-समुद्रादिदेशान्तरवर्तिचन्द्रं विना न हि जलचन्द्रोऽनुपपन्नः किन्तु नभसि चन्द्रं विनवेति नभ एव विम्बभूतचन्द्रानुमितौ धर्मितया भासते तस्यैवान्यथानुपपत्तिलक्षणव्याप्त्यवच्छेदकत्वात् । न हि अन्यदेशस्थितो धूमो गृहीतस्सन् स्वाधिकरणदेशातिरिक्तदेशस्थितवह्वयनुमिति जनयितुमलमिति यस्सिन्देशे गृहीतस्सन् अनुमितिम्जनयति स एव देशोऽनुमितौ धर्मितया भासते इत्युदाहरति ।
पृ. १७. पं. १६ क्वचिच्च...तत्र-पर्वते, व्याप्त्यवच्छेदकतयैव पर्वतस्य कुतो न भानमिति न शङ्कथं सर्वोपसंहारेण व्याप्तिग्रहणे धूमाधिकरणमात्राननुगामिनः पर्वतस्य विशिष्याप्रतिभासनेनावच्छेदकत्वासम्भवादित्याह ।।
पृ. १७. पं. १८ व्याप्तिग्रहवेलायां तु-अन्यथानुपपत्तिलक्षणव्याप्त्यवच्छेदकता हेतुग्रहणीया अधिकरणविधया विषयता वा नानुमितौ पक्षस्य प्रतिनियतस्य धर्मिविधया भाने प्रयोजिका किन्त्वन्ताप्तेरेवानुमितौ प्रयोजकत्वेन साध्यहेत्वोः पक्ष एव व्याप्तिरन्ताप्तिरितिलक्षणलक्षितान्ताप्तिग्रहे धर्मिविधया पक्षस्यावश्यम्भानेन तदीयधर्मिविषयतैव तत्र प्रयोजिकेति पक्षधर्मत्वस्य हेतुलक्षणत्वाभावेऽपि नानुमितौ प्रतिनियत धर्मिविषयतानुपपत्तिरिति कस्यचिन्मतम्प्रति. क्षेप्तुमुपन्यस्यति ।
पृ. १७. पं. १९ यत्विति-अन्तर्याप्त्येत्यस्य पक्षसाध्यसंसर्गमानमित्यत्रान्वयः कथम्भावाकाङ्क्षायामुक्तम् ।