________________
१. प्रमाणपरिच्छेदः। रेण प्रतिबिम्बस्यानुपपत्तिलक्षणनियमबलादेवेति तत्रापि पक्षधर्मत्वाभावेऽपि प्रतिबिम्बलक्षणहेतुतो बिम्बलक्षणसाध्यानुमितिर्जायत इत्याह ।
पृ. १७. पं. ७ अस्तिनभश्चन्द्रइति-नभश्चन्द्र आकाशस्थितश्चन्द्रो बिम्बात्मा, जलचन्द्रो जले चन्द्रप्रतिविम्बनादाभासमानश्चन्द्रः इत्यादीत्यादिपदादभूस्कृतिकोदयश्शकटोदयात वृद्धिमान् समुद्रश्चन्द्रोदयात् , अयं बाह्मणः पित्रोबाह्मण्यात् , उपरिदेशेऽभूदृष्टिः अधोदेशे नदीपूरवचात , भविष्यति वृष्टिः साण्डपिपीलिकोर्ध्वसञ्चारादित्यादेरुपग्रहः, पक्षधर्मत्वस्य साध्यगमकत्वाङ्गत्वं भट्टस्यापि न सम्मतं । तदुक्तम् ।
पित्रोश्च बाह्मण्येन पुत्रबाह्मणतानुमा । सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥१॥ नदीपूरोऽप्यधोदेशे दृष्टः सन्नुपरिस्थिताम् ।
नियम्यो गमयत्येव वृत्तां वृष्टिं नियामिकाम् ॥ २॥ इति ॥ ननु कृतिकोदयकालरोहिण्युदयकालद्वयव्यापकस्थूलकाल एव कृतिकोदयेन शकटोदयानुमाने पक्षीकरणीयस्तत्र साध्यहेत्वोरुभयोरप्यस्त्येव सद्भावः, एवं सर्वकालवत्तिन्याकाशात्मकदेशे तयोरस्ति सद्भाव इत्याकाशम्पक्षीकृत्यापि पक्षधमता सुसम्पायेति पराकूतमाशङ्कय प्रतिक्षिपति ।
पृ. १७. पं. ८ न चात्रापि-वाच्यमित्यनेनान्वयः । अत्रापि उदेष्यति शकटं कृतिकोदयादित्यादावपि, उदेष्यति शकटमित्याद्यनुमाने धर्मितया विषय. त्वं कालाकाशादेर्नानुभूयत इति न तस्य पक्षत्वम् , अननुभूयमानस्यापि पक्षतया विषयत्वाभ्युपगमे तु प्रासादधावल्यमस्ति काककायादित्यप्यनुमानम्भवेत् जगद्रपपक्षे प्रासादधावल्यकाककाष्ण्ययोस्सद्भावादित्याह ।
पृ. १७ पं. १० अननुभूयमानेति-इत्थं कालाकाशादिकं गृहीत्वा, ननु पक्षः साध्यश्चेति द्वयं भासते, तत्र हेतोर्यद्वयाप्तिरूपं बलं तद्वलाद्वथापकस्य साध्यस्य भानं, यच्च पक्षधर्मतारूपं बलं तद्वलाद्धर्मिणः पक्षस्य भानमितिव्याप्तिवत्पक्षधर्मताऽपि हेतोरवश्यमुपेया हेतुबलमन्तरेणैव धर्मिणोऽनुमितौ भाने नियतस्यैव