________________
जैनतर्कभाषा
१४२ त्रिलक्षणकत्वं हेतोरिष्यते बौद्धैः । तत्र त्रिरूपमध्यात्केन कस्य व्यपोह इत्यपेक्षायामाह। __ पृ. १७. पं. ३ पक्षधर्मत्वाभावे इति-पक्षसत्वं पक्षधर्मत्वं तद्रूपस्य हेतुलक्षणघटकत्वाभावे शद्धोऽनित्यश्चाक्षुषत्वादित्यत्र शद्वरूपपक्षेऽसतश्चाक्षुषत्वस्य स्वरूपासिद्धस्य सपक्षे घटादौ सत्त्वेन विपक्षे शशशृङ्गादावसत्त्वेन सपक्षसचविपक्षासत्त्वलक्षणरूपद्वयसद्भावादसिद्धत्वेऽपि हेतुत्वप्राप्तेरसिद्धत्वव्यवच्छेदस्यासम्भवेन चाक्षुषत्वहेतुनाऽपि शब्देऽनित्यत्वानुमितिस्स्यादिति तत्प्रतिरोधो न भवेदित्यर्थः । असिद्धत्वव्यवच्छेदस्येत्यस्यासम्भवेनेत्यनेनान्वयः, सपक्षसत्त्वस्य हेतुलक्षणघटकत्वाभावे च विरुद्धस्यापि साध्यानुमापकत्वं स्यादित्याह ।
पृ. १७. पं. ४ सपक्ष एवेति-विरुद्धत्वव्युदासस्येत्यस्यासम्भवेनेत्यनेनान्वयः, विपक्षसत्त्वस्य हेतुलक्षणघटकत्वाभावे व्यभिचारिणो गमकत्वं प्रसज्येत्याह । विपक्ष इति अनुमित्यप्रतिरोधेत्यत्र अनुमितिप्रतिरोधेतिपाठो युक्तः । बौद्धमतम्प्रतिक्षिपति । __ पृ. १७. पं. ६ तन्नेति-हेतोस्त्रिलक्षणाभ्युपगमनं बोद्धस्य न समीचीनमित्यर्थः । यस्य हेतोन पक्षसत्वं तस्यापि गमकत्वस्य दर्शनेन पक्षसत्त्वस्य न हेतुनिष्ठसाध्यगमकत्वाङ्गत्वमित्याह । . पृ. १७. पं. ६ पक्षधर्मत्वाभावेऽपीति-अश्विन्यादिनक्षत्राणां पूर्वपूर्वोदये तदव्यवहितोत्तरनक्षत्राणामवश्यमेवोदय इतिनियमबलादेवाव्यवहितपूर्वकालीनकृतिकोदयरोहिण्युदययो.ककालवृत्तित्वस्यानुमितिर्जायते, तत्र कृतिकोदयतस्तदनन्तरोत्तरकालीनरोहिण्युदयलक्षणसाध्यस्य सत्त्वं तस्मिन्काले कृतिकोदयलक्षणहेतोस्सत्वाभावात्पक्षधर्मता नास्ति तथापि ततो अनुमितिरुत्पद्यते इति ।
पृ. १७. पं. ७ शकटं-रोहिणीनक्षत्रम् । विभिन्नकालीनयोस्साध्यसाधनभावस्थले पक्षधर्मत्वस्य व्यभिचारमुपदर्य विभिन्नदेशस्थयोस्साध्यसाधनभावस्थले तमाह ।
पृ. १७. पं. ७ उपरि-ऊर्ध्वदेश इत्यर्थः । पृ. १७. पं. ७ सविता-सूर्यः, प्रतिविम्यस्य विम्बानुमापकत्वं निम्बमन्त