________________
१. प्रमाणपरिच्छेदः ।
१४१ पृ. १६. पं. २५ यथा गृहीतधूमस्य-अनुमितेः प्राक्काले गृहीतो धूमो येन प्रमात्रा स गृहीतधूमस्तस्य ।
पृ. १६. पं. २५ स्मृतव्याप्तिकस्य-धूमदर्शनलक्षणोद्धोधकवशात्स्मृता व्याप्तिर्वह्निधूमयोर्येन स स्मृतव्याप्तिकस्तस्य “पर्वतो वह्निमान्" इति पर्वत विशेष्यकवह्निप्रकारकं ज्ञानं स्वगताज्ञाननिवृत्तिप्रयोजकत्वात्स्वार्थानुमानमित्यर्थः । अत्र अनुमाने हेतुग्रहण-व्याप्तिलक्षणसम्बन्धस्मरणयोर्यत्कारणत्वं तत्समुदितयोरेव, नत्वेकैकस्य, येन पूर्व व्याप्तिरनुभृता इदानीं न मर्यते येन च पूर्व नानुभूतैव व्याप्तिः तयोः पुंसोलिङ्गग्रहेऽप्यनुमानानुदयादितिलिङ्गग्रहणमात्रस्य, यस्य च व्याप्तिस्मरणं समस्ति लिङ्गग्रहणन्तु तदानीं नास्ति तस्य व्याप्तिस्मरणे सत्यप्यनुमानानुत्पादादिति व्यातिसरणमात्रस्य च व्यभिचारेण कारणत्वासम्भवादित्याह ।
पृ. १६. पं. २६ अत्रेति-एवकारेण एकैकस्य व्यवच्छेदः ।
पृ. १६. पं. २७ अन्यथा-केवलस्य हेतुग्रहणस्य केवलस्य व्याप्तिस्मरणस्य कारणत्वाभ्युपगमे, विस्मृताप्रतिपन्नसम्बन्धस्येत्यनेन विस्मृतसम्बन्धस्य अप्रतिपन्नसम्बन्धस्य च ग्रहणम् , तत्रानुमानोत्पादश्च न भवतीत्यत एकैकस्य न कारणत्वमिति भावः । स्वार्थानुमानप्रसङ्गहेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थमित्युक्तं तत्र को हेतुरित्याकाङ्क्षायामाह ।
पृ. १७. पं. २ निश्चितेति-निश्चिता या साध्यं विना हेतोरनुपपत्तिस्सा निश्चिताऽन्यथानुपपत्तिः सैवैका लक्षणं यस्य स निश्चितान्यथानुपपत्येकलक्षणः स हेतुः एवञ्च निश्चितान्यथानुपपत्तिमत्त्वं हेतोलेक्षणमित्यर्थः, एकलक्षणेत्युक्तेर्व्यवच्छेद्यमाह ।
पृ. १७. पं. २ न तु-त्रिलक्षणादिरित्यादिपञ्चलक्षणकस्योपग्रहः । पक्षसत्त्व, सपक्षसत्त्व-विपक्षासत्त्वैतद्रूपत्रयवत्त्वं त्रिलक्षणकत्वं । पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्वा-बाधितत्वा-सत्प्रतिपक्षितत्वेत्येतत्पश्चरूपोपपन्नत्वं पञ्चलक्षणत्वं, तत्रोक्तत्रिलक्षणको हेतुरिति बौद्धा अभ्युपगच्छन्ति, तन्मतं प्रतिक्षेप्तुमुपदर्शयति ।
पृ. १७. पं. २ तथाहीति-त्रिलक्षण एवेत्येवकारेण एकलक्षणकस्य पश्चलक्षणकस्य हेतोर्व्यवच्छेदः, उक्तत्रिलक्षणरहितस्य हेत्वाभासस्य सद्धेतुत्वापनोदाय