________________
१. प्रमाणपरिच्छेदः ।
रूपमनुमानविषयतया निर्द्धारयितुं शक्यमिति किं लक्षणमसाधारणधर्मत्वस्वरूपलक्षणत्वसामान्यधर्मव्याप्यधर्म प्रकारकजिज्ञासाविषयीभूतज्ञानविषयः, जिज्ञासा च साध्यासाधारणधर्मप्रकारकज्ञानं मे जायतामित्याकारिका किमो जिज्ञासार्थकत्वात् अथवा किमित्याक्षेपे, यत्किमपि लक्षणं ग्रन्थकृतोपदर्शनीयं तत्सर्वं दोषकवलितमेव भविष्यतीति लक्षणाभावान्नास्त्येव साध्यमिति तद्विषयकमनुमानमपि न संभवति, विषयाभावे विषयिणोऽप्यभावादित्याक्षेपः । यत्प्रमाणमुपजीव्यैव प्रत्यक्षादीनि प्रमाणतया व्यवस्थितानि भवन्ति इदम्प्रमाणं संवादिप्रवृत्तिजनकत्वादित्याद्यनुमानमन्तरेण प्रत्यक्षादीनाम्प्रामाण्याव्यवस्थितेः, तस्यानुमानस्य विषयोऽस्त्येव साध्यं तल्लक्षणं यद्यप्येकान्तवाद्यभिमतं सर्वं दोषकलितं, तथापि स्याद्वादिनास्माकमभिमतं साध्यलक्षणं दोषलेशा सम्पृक्तमस्त्येवेत्याशयवान् ग्रन्थकृदाह ।
,
१४९
पृ. १८. पं. ११ उच्यते ... अप्रतीतमिति - अत्र साध्यमिति लक्ष्यनिदेशः, अप्रतीतम निराकृतमभीप्सितं चेतिलक्षणवचनम्, पर्वतो वह्निमान् धूमादित्यादौ वह्निः साध्यः, स च वह्नित्वेन सामान्यतः प्रतीतोऽपि पर्वतगततया साध्यत्वेनेष्टः पर्वतीयवह्निस्वरूपो न केनापि प्रमाणेन प्रतीत इत्यमतीतत्वं तस्य, तथा पर्वतरूपधर्मिणि न स केनापि प्रमाणेन निराकृतः पर्वते वहन्यभावसाधकस्य कस्यापि प्रमाणस्याभावादिति प्रत्यक्षादिप्रमाणेनानिराकृतत्वमपि तस्य, इष्टश्च पर्वते साधयितुं प्रमातुः सः पर्वते वह्निमनुमिनुयामितीच्छाविषयानुमितिविषयत्वात्, उभयं हि लोकेऽभीप्सितं भवति फलं सुखदुःखाभावान्यतररूपं साक्षात्परम्परया वा तत्साधनं च, सुखसाधन शीतापनोदपाकादिसाधनत्वाद्वह्निरपि तथेत्यभीप्सितत्वमपि तस्येत्यप्रतीतत्वादिविशेषणत्रयवच्चलक्षणं तत्र वर्त्तत इति लक्षणसमन्वयः, तत्राप्रतीतत्वस्य कृत्यमुपदर्शयति ।
पृ. १८. पं. १६ शङ्कितस्यैव - यद्यपि संशयादेरपि ज्ञानत्वमेवेति तद्विषयोsपि प्रतीत एव, तथापि अप्रतीतत्वमत्र प्रमात्मकनिश्वयाविषयत्वमिह विवक्षितम्, लोके य एव प्रमात्मकनिश्चयविषयकस्स एव प्रतीत इति व्यवहियते । यः खलु प्रमाता पर्वतो वह्निमान्नवेत्येवं पर्वते वह्निं सन्दिग्धे तम्प्रति संशयात्मकज्ञानविषयत्वेन वह्नेः शङ्कितत्वादप्रतीतत्वं यश्च भ्रान्तः प्रतिपत्ता पर्वते सन्तमपि नास्त्यत्र वह्निरिति पर्वतवृत्यभावप्रतियोगित्वेनावधारितवान् तम्प्रति विपर्ययात्मकज्ञानविषयाभावप्रतियोगित्वेन विपरीतत्वादप्रतीतत्वं यश्च प्रति