________________
१५०
जैनतर्कभाषा । पत्ता पर्वतेऽस्तित्वेन नास्तित्वेन च वह्निं न जानात्येव जानानोऽपि किमप्यत्रास्तीत्येवमेवावगच्छति तम्प्रति वह्वेरनध्यवसितत्वादप्रतीतत्वमिति सन्दिग्धविपयस्ताव्युत्पन्नान्प्रति भवति, बह्नस्साध्यत्वमित्येतदधिगतयेप्रतीतमितिविशेषणमित्यर्थः । तेन यश्च पर्वते वह्निं निश्चिनोत्येव तम्प्रति तस्य साध्यत्ववारणायाप्रतीतमितिविशेषणमित्यावेदितम्भवतीति । अनिराकृतमिति विशेषणस्य प्रयोजनमुपदर्शयति । ___ पृ. १८. पं. १३ प्रत्यक्षादिविरुद्धस्येति-अत्रादिपदादागमादेग्रहणम् , वहिरनुष्णः कृतकत्वादित्यत्रानुष्णत्वमुष्णस्पर्शाभावः साध्यतया प्रयोक्तुरिष्टः स च वसावुष्णस्पर्शग्राहिप्रत्यक्षविरुद्ध इति प्रत्यक्षप्रमाणन्निराकृतत्वान्न तस्य साध्यम् , अनिराकृतत्वविशेषणानुपादाने तु तस्याप्यप्रतीतत्वेनाभीप्सितत्वेन च साध्यत्वं प्रसज्येतेति तस्य साध्यत्वं मा प्रसावीदित्येतदर्थमनिराकृतमिति विशेषणम् , एवं जैनै रजन्यां भोजनं भजनीयं मनुष्यत्वादुमयसम्प्रतिपन्नरात्रिभोजिजनवदित्यत्र जैननिष्ठरात्रिभोजनकतत्वं साध्यत्वं तच जैनागमप्रमाणविरुद्धं तत्र जैनानां रात्रिभोजननिषेधादिति तस्य साध्यत्वनिराकरणायापि तदुपादेयम् , तथाऽऽत्मा ज्ञानशून्योऽमूर्तत्वाद्धमास्तिकायादिवदित्यत्र ज्ञानशून्यत्वस्य साध्यत्वेनाभिमतस्य धर्मिण आत्मनः साधकस्यानुमानप्रमाणस्य ज्ञानवत्वेनैवात्मनो ग्राहकत्वेन तद्विरुद्धस्यात्मगतज्ञानाभाववत्वस्यानुमाननिराकृतस्य साध्यत्वापनोदायापि तद्विशेषणमित्यर्थः । अभीप्सितत्वविशेषणस्य प्रयोजनमुपदर्शयति ।
पृ. १८. पं. १४ अनभिमतस्येति-नैरात्म्यवादिनं बौद्धम्प्रति स्थिरात्मसाधनाय कपिलानुयायिनः साङ्ख्याः चक्षुरादयः परार्थाः सङ्घातत्वाद्ये ये सङ्घा. तरूपास्ते परार्थाः यथा शयनीयादय इति प्रयोगमारचयन्ति तत्र चक्षुरादीनां पारायं यत्साध्यं तदात्मार्थत्वमेव साङ्ख्यानामुक्तप्रयोगप्रयोक्तृणामभीप्सितं न तु बौद्धाभिमतं चक्षुरादीनां संहतपरार्थत्वं तत्साधने हि न साङ्ख्यानामात्मा सिद्धयति तत्र वैफल्यमेवानुमानस्येतिसाख्यानभिमतस्य संहतपरार्थत्वस्यासाध्यत्वावबोधनाय तस्य साध्यत्वम्प्रासाङ्गीदित्येतदर्थमभीप्सितग्रहणं तथा चाभीप्सितस्यात्मार्थत्वस्यैव साध्यत्वं न तु संहतपरार्थत्वस्य, चक्षुरादीनां संहतपरार्थत्वे तु. सोऽपि संहतःपरस्संघातरूपत्वात्संहतपराथेः एवं सोऽपीत्यनवस्थाप्रसज्यत इति