________________
१. प्रमाणपरिच्छेदः ।
10
पृ. २१ पं. २८ परीक्षापूर्वमिति-तद्वाधात्-परकीयागममामाण्याम्युपगमाभावात् , ननु यदि पराममसिद्धहेतुना साध्यासाधनं न न्याय्यं, तर्हि नैयायिकागमसिद्धसर्वथैकत्वहेतुना सामान्यस्यानेकधर्मिसम्बद्धत्वाभावसाधनं स्याद्वादिनोऽप्ययुक्तमिति शङ्कते।
पृ. २१ पं. २८ नन्वेवम्-परागममात्रसिद्धहेतुवचनस्यायुक्तत्वे । पृ. २१ पं. २८ भवद्भिरपि-जैनैरपि ।
पृ. २२ पं. १ परम्प्रति-नैयायिकम्प्रति । आपादनाकारं यत्सर्वथैकमित्यादिना दर्शितम् , यत्सर्वथैकं तन्नानेकत्र सम्बद्धयते इति व्याप्तिप्रदर्शनम् । तथा च सामान्यमिति उपसंहारवचनं, सर्वथैकं च सामान्यमिति तदर्थः । ततश्च सामान्यं नानेकत्र सम्बद्धथत इत्यापादनम् , यदि स्वतन्त्रानुमानरूपमिदं स्यात्तदाऽयुक्तत्वमस्यापि स्यादेवेत्यर्द्धस्वीकारपरम् ।
पृ. २२ पं. २ सत्यमिति-तर्हि किमिदमित्यपेक्षायामाह ।
पृ. २२ पं. २ एकधर्मोपगमे-सामान्ये नैयायिकेनैकधर्मोपगमे सर्वथैकत्वरूपधर्मोपगमे, तम्प्रति ।
पृ. २२ पं. २ धर्मान्तरसन्दर्शनमात्रपरत्वेन-धर्मान्तरस्य सर्वथैकत्वव्यापकानेकर्मिसम्बन्धित्वाभावस्य प्रदर्शनमात्राभिप्रायकत्वेन ।
पृ. २२ पं. ३ एतदापादनस्य-यत्सर्वथै तन्नानेकत्र सम्बद्धयते, तथा च सामान्यमित्यापादनस्य ।
पृ. २२ पं३ वस्तुनिश्चायकत्वाभावात्-तद्विषयस्य सामान्यगताने कसम्बन्धित्वाभावस्य वस्तुतोऽभावेन वस्तुनिश्चायकत्वासम्भवात, व्याप्याभ्युपगमनान्तरीयको व्यापकाभ्युपगमो यत्र प्रसज्यते तत्प्रसङ्गसाधनमितिलक्षणसद्भावेन प्रसङ्गसाधनमेवैतन्त्रयायिकम्प्रति जैनेन क्रियते, तदाकारश्च यदि सामान्य सर्वथैकं स्यात्, अनेकत्रधर्मिणि न संबध्नीयादिति, तत्किमत्र वस्तुनिश्चयो न भवत्येव, एवञ्चेत्तदुद्भावनमनर्थकमेव भवतां प्रसज्येतेत्यत आह ।