Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 104
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । तस्यां गजः समभवल्लषमाभिधानः श्राद्धः प्रबुद्धगुणरत्नविभूषितांगः । येन खराः सफलतामिह सिद्धिशैले लात्वा सुरेशपदमापि सुपुण्यभाजा ॥ २ ॥ तत्पत्नी समधर्मकर्मकुशला भोपीति नाम्ना बभौ मूर्ता कल्पलतेव कोविदजनैर्या गीयतेऽहर्निशम् । दंपत्योर्गृहधर्म्ममाश्रितवतो जज्ञुस्त्रयो नंदनाः, पद्माख्यः प्रथमस्ततो निजगुरौ भक्त्युत्वणः पेथडः ॥ ३ ॥ माकंदशालतुलनां कलयंस्तृतीयः, सौरभ्यशालितवपुः पृथुलांशचंगः । 5 - आभाभिधः सुमुनिपात्र नियोजितख - खो व्याघ्रकादिमसुतैः सफलैर्वृतोऽभूत् ॥ ४ ॥ इतश्च – सद्भक्तिभावितमनः सुमलेखराजीप्रारब्धसादरनतिः कमनीयकान्तिः । सौवांह्रिचाररचितावनितारशान्तिश्चांद्रे कुले समभवज्जिनचंद्रसूरिः ॥ ५ ॥ विशददशनमालास्फारदीप्तिप्रचारस्फुटघटितच कोरप्राणिदृष्टिप्रमोदः । रजनिपतिसगोत्रस्तारकाधिष्ठितः श्रीजिनकुशलयतीन्द्रस्तत्कपट्टेऽजनिष्ट || ६ | यच्छेमुषीं समवलोक्य बभूव देवाचार्योऽपि संततमनिंदितवाग्विलासः । संजातकंप इव भूमितले स नंद्यात् आचंद्रमादरनुतो जिनपद्मसूरिः ॥ ७ ॥ तेषां निदेशादमरप्रभायोपदेशमाला दिसुवृत्तिपुस्तम् । संलेखयामास विशुद्धवर्ण आभाभिधः श्राद्धवरप्रमोदात् ॥ ८ ॥ यावत् क्षमांगना दधे ताडंकौ चंद्रभास्करौ । तावन्नद्यादिदं पुस्तं वाच्यमानं सदा बुधैः ॥ ९ ॥ ॥ सा० आभालेखित पुस्तिका प्रशस्तिः ॥ [ ६८ ] ऊकेशवंशीय-श्राविकाहादू-लेखित -[ मलयगिरिविरचित ] सप्ततिकाटीकापुस्तकप्रशस्तिः * । [ लेखनकाल १४६२-६५ विक्रमाब्द ] - संवत् १४६२ वर्षे माघशुदि ६ भौमे अधेह श्रीपत्तने लिखितम् ॥ छ ॥ शुभं भवतु ॥ ऊकेशवंशसंभूतः प्रभूतसुकृतादरः । वासी सांडउसी मामे सुश्रेष्ठी महुणाभिधः ॥ १ ॥ मोधीकृताघसंघाता मोधीरप्रतिघोदया । नानापुण्यक्रियानिष्ठा जाता तस्य सधर्मिणी ॥ २ ॥ तयोः पुत्री पवित्राशा प्रशस्या गुणसम्पदा | हादूर्दूरीकृता दोषैधर्मकर्मैककर्मठा ॥ ३ ॥ शुद्धसम्यक्त्वमाणिक्यालंकृतः सुकृतोद्यतः । एतस्या भागिनेयोऽभूद् ओकाकः श्रावकोत्तमः ॥ ४ ॥ श्रीजैनशासननभोऽङ्गणभास्कराणां श्रीमत्तपागण पयोधिसुधाकराणाम् । विश्वाद्भुतातिशयराशियुगोत्तमानां श्रीदेव सुन्दर गुरुप्रथिताभिधानाम् ॥ ५ ॥ पुण्योपदेशमथ पेशलसन्निवेशं तत्त्वप्रकाशविशदं विनिशम्य सम्यक् । एतत्सु पुस्तकमलेखयदुत्तमाशा सा श्राविका विपुलबोधसमृद्धिहेतोः ॥ ६ ॥ बाणांगवेदेन्दुमिते ( १४६५ ) प्रवृत्ते संवत्सरे विक्रमभूपतीये । श्रीपतनाह्नानपुरे वरेण्ये श्रीज्ञानकोशे निहितं तयेदम् ॥ ७ ॥ एतत्प्रशस्तियुक्तं ताडपत्रीयपुस्तकं पत्तने संघवीपाडाव स्थित भाण्डागारे विद्यते । मुद्रिता चेयं प्रशस्तिः श्रीमच्चतुरविजयमुनिवरैः ate 'चत्वारः कर्मग्रन्थाः ' नामक ग्रन्थप्रस्तावनायाम् पृ० २ । Jain Education International ૭ For Private & Personal Use Only 10 15 20 25 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218