Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 114
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । [८३] प्राग्वाटान्वय-श्रे० गुणधर-लेखित-शान्तिनाथचरित्र-पुस्तकप्रशस्तिः । [लेखनसमय सं० १३३० विक्रमाब्द] -संवत् १३३० वर्षे आषाढ शुदि १० शनौ । ॥ ॐ नमः सर्वज्ञाय ॥ स श्रीशान्तिः श्रिये वोऽस्तु योऽपूर्वो मृगलांछनः । अविनाशिरुचिच्छायः सदा द्योतः (१) प्रकाशकः ॥ १॥ सश्रीकं जिनमाहवन् (१) लवणिमालीलागृहं रत्नसूः, ...... पूर्णकलामवाप्य मुदितस्तन्वन्नदीनां स्थितिं । शश्वद्गोत्रप्रतिष्ठारुचिरसनिलयः साधुवृत्तः समजः (१), सत्त्वाधारः समुद्रोपम इह जयति प्राग्वाटनामान्वयः ॥२॥ तदन्वयेऽभूदु धनदानुकारी सन्मार्गशाखीव परोपकारी। धनेश्वरोधर्मधुरीणदेहस्तस्यांगजोऽभूद् धनदाकनामा ॥३॥ काशहदे वरनगरे धनदाकेनादिनाथजिनभुवने । मूलप्रतिमाऽभिनवाऽस्थाप्यत शुद्धेन वित्तेन ॥ ४॥ 10 श्रेष्ठिनो धनदाकस्य ब्रह्मदेवः सुतः शुभः । वाग्भटश्च सुता चैका लक्ष्मिणिः शीलशालिनी ॥ ५॥ पुत्रो गोगाकनामाऽभूद् बाहडस्य गुणश्रियः । गोगाक-सूमला पत्नी तयोः पुत्रत्रयं क्रमात् ॥ ६ ॥ ऊधिग-धांधू-आकडमुख्या साल्हु तथाऽपरा दुहिता। सौभाग्य-श्रीदेवीकाख्यौ पत्न्यौ शुभाकारे ॥ ७ ॥ भार्याऽभूद् ब्रह्मदेवस्य मंदोदरी शुभाशया । तयोः पुत्राश्चतुःसंख्या धर्मकर्मणि कर्मठाः ॥ ८ ॥ आल्हाकः सफलः कलंकरहितः खच्छाशयो धर्मधीः, साल्हाको महिमानिधानमतुलो वाक्येन सन्नंदकः। 15 राल्हाको गुरुपादपद्मभसलः सर्वज्ञपूजारतः, माल्हाकः सबलः सलीलगमनः सत्यव्रतालंकृतः ॥९॥ राल्हाक-कुमारदेव्योः पुत्रत्रितयं तु ब्रह्मणागाद्यः। काल्हूक-रत्नसिंहौ ब्रह्मी-सोहग-सुते द्वे च ॥१०॥ आल्हाकोऽर्जितवित्तादाभरणं श्रीयुगादिदेवस्य । आरत्रिकं च मंगलदीपयुतं कारयामास ॥ ११ ॥ 'आल्हाक-रत्नदेव्यो रत्नत्रयधारकास्त्रयः पुत्राः । गुणधर-यशधर-समधरमुख्याश्चाहणिः सुता चैका ॥ १२ ॥ समधरभार्या कर्मणिः पुत्राः सप्त क्रमेण कालाद्याः । आसाऽऽसपाल-सेढा-पूना-हरिचंद्र-वयराख्याः ॥ १३ ॥ गुणधरभार्या खच्छा शीलतपोदानभावधर्मरता । राजमतिरंगजातास्तयोर्जनानंदकाः शस्याः ॥१४॥ पार्श्वभटो वीराक अंबा-लीबाक-सोमदेवाश्च । शीलू-हीरल-दुहिते जिनधर्मसदोद्यते एते ॥ १५॥ पासड-भार्या साजिणि पुत्रौ द्वौ विजयसिंह-नयणाको । वीरापत्नी राजश्रीः सूनुत्रितये तु जगपालः॥१६॥ हरपाल-देवपाली; आंबाभार्या च ललतुका श्रेष्ठा । नरपालः सुतश्चैको; लीबाकल्याण( भार्या !)पमाख्या ॥ १७ ॥ विजयश्री-यशधरयोर्नरसिंहसूनुरतिथिजनभक्तः । पाती दुहिता चैका कुटुंबमेतच्च सुविशालं ॥ १८ ॥ श्रीभुवनरत्नपूज्याः पारीद्रा वादिकुंजरेण । कांतारनिवृत्तिका गच्छधराः शुभाचाराः (१) ॥ १९ ॥ 30 आनंदप्रभसूरींद्रास्तत्पदांभोजभानवः । सिद्धांतजलधिपारं प्रापुः प्रज्ञाप्रकर्षेण ॥ २० ॥ 25 * इदं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरावस्थितज्ञानकोशे विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218