Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[८८] अवकेशवंशीय-श्रा० माल्हणदेवी-लेखित-आवश्यकलघुवृत्ति-पुस्तकप्रशस्तिः ।
[लेखनसमय सं० १४४५ विक्रमाब्द ] -संवत् १४४५ वर्षे चैत्र वदि ३ सोमे श्रीस्तंभतीर्थे कायस्थज्ञातीय महं जाना सुत महं माला5 केन लिखितं ॥ छ ।
जैनत्वाव्यभिचारिभावसुभगाः सर्वेऽपि यस्मिन् जना-स्तस्मिन् धर्मयशःसमृद्धिविशदे वंशेऽवकेशाहये । श्राद्धोऽभून्नरसिंह इत्यभिधया साधुः प्रसिद्धः सुधी-स्तस्य प्रौढगुणा बभूव नयणादेवीति वित्ता प्रिया ॥ १ ॥
तयोरभूवंस्तनयास्त्रयोऽमी मूंजाल-माला-महीपालसंज्ञाः ।
मालाभिधस्तेषु विशेषधर्मी पुण्याय पाणिग्रहणे निषेधात् ॥ २॥ 10.
तेषु च महिपालस्याजनि माल्हणदेविनामिका पत्नी ।
तत्पुत्रा मेघा-मासण-सहदे-सालिगाः सुगुणाः ॥ ३ ॥ श्रीतपागच्छगगनालंकारैकविवखतां । श्रीदेवसुंदरगुरुसूरीणामुपदेशतः ॥ ४ ॥
माल्हणदेवी सुविशुद्धवासनाऽऽवश्यकस्य लघुवृत्तिं ।
लेखयति स्म शेरां-बुधि-शक्रॉब्दे (१४४५) स्तंभतीर्थपुरे ॥ ५ ॥ 15 सुराद्रिदंडस्थितिसिद्धतारामुक्तावलीकं वियदातपत्रं । श्रीसंघराजोपरि यावदास्ते सत्पुस्तकं नंदतु तावदेतत् ॥ ६॥
[८९] क्षात्रवंशीय-झालाकुलजात-नीतल्लदेवी-लिखित [ हेमचन्द्रसूरिकृत ] योगशास्त्र
पुस्तकप्रशस्तिः ।
[ लेखनकाल अनुल्लिखित ] 20 इति परमाहतकुमारपालभूपालशुश्रूषिते आचार्य श्रीहेमचंद्रविरचिते अध्यात्मोपनिषन्नाम्नि संजात
पट्टबन्धे योगशास्त्रे खोपज्ञद्वितीयप्रकाशविवरणं ॥ ३३०० ॥ दिशतु वः श्रियं शश्वत् श्रीमान् वीरजिनेश्वरः । प्रणयीकृतसिद्धार्थसिद्धार्थनृपनन्दनः ॥ १ ॥ सूराकः संज्ञया ख्यातः क्षत्रियाणां शिरोमणिः । श्रीमान् शांतिमदेवाख्यस्तस्य भ्राता गुणाग्रणीः ॥ २॥ तस्मात् पुत्रः कलाधाम सुकरानन्दितक्षितिः । विजपालो बुधश्चंद्रो झालाकुलनभस्तले ॥ ३ ॥ 25 बभूव प्रेयसी तस्य राज्ञी राजगुणान्विता । नीतादेवीति नीतिज्ञा धर्मारंभसदोद्यता ॥ ४ ॥
राणकः पद्मसिंहाख्यस्तनयो विनयी नयी । जनानां नयनानन्दी जज्ञे पुत्री तयोस्तथा ॥ ५॥ श्रीमती रूपलादेवी [ वैरि ]वीरप्रमाथिनी । पत्नी दुर्जनशल्यस्य साऽभूत् प्रेमवती सदा ॥ ६ ॥ श्रीदेवीकुक्षिजस्तस्योदयसिंहाभिधः सुतः । वैरिवारण विध्वंससिंहाद्वैतपराक्रमः ॥ ७ ॥
* पुस्तकमिदं स्तंभतीर्थे शान्तिनाथमन्दिरस्थितज्ञानकोशे विद्यते। + पत्तने खेतरवसहीपाटकावस्थितज्ञानकोशे विद्यते पुस्तकमिदं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218