SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । [८८] अवकेशवंशीय-श्रा० माल्हणदेवी-लेखित-आवश्यकलघुवृत्ति-पुस्तकप्रशस्तिः । [लेखनसमय सं० १४४५ विक्रमाब्द ] -संवत् १४४५ वर्षे चैत्र वदि ३ सोमे श्रीस्तंभतीर्थे कायस्थज्ञातीय महं जाना सुत महं माला5 केन लिखितं ॥ छ । जैनत्वाव्यभिचारिभावसुभगाः सर्वेऽपि यस्मिन् जना-स्तस्मिन् धर्मयशःसमृद्धिविशदे वंशेऽवकेशाहये । श्राद्धोऽभून्नरसिंह इत्यभिधया साधुः प्रसिद्धः सुधी-स्तस्य प्रौढगुणा बभूव नयणादेवीति वित्ता प्रिया ॥ १ ॥ तयोरभूवंस्तनयास्त्रयोऽमी मूंजाल-माला-महीपालसंज्ञाः । मालाभिधस्तेषु विशेषधर्मी पुण्याय पाणिग्रहणे निषेधात् ॥ २॥ 10. तेषु च महिपालस्याजनि माल्हणदेविनामिका पत्नी । तत्पुत्रा मेघा-मासण-सहदे-सालिगाः सुगुणाः ॥ ३ ॥ श्रीतपागच्छगगनालंकारैकविवखतां । श्रीदेवसुंदरगुरुसूरीणामुपदेशतः ॥ ४ ॥ माल्हणदेवी सुविशुद्धवासनाऽऽवश्यकस्य लघुवृत्तिं । लेखयति स्म शेरां-बुधि-शक्रॉब्दे (१४४५) स्तंभतीर्थपुरे ॥ ५ ॥ 15 सुराद्रिदंडस्थितिसिद्धतारामुक्तावलीकं वियदातपत्रं । श्रीसंघराजोपरि यावदास्ते सत्पुस्तकं नंदतु तावदेतत् ॥ ६॥ [८९] क्षात्रवंशीय-झालाकुलजात-नीतल्लदेवी-लिखित [ हेमचन्द्रसूरिकृत ] योगशास्त्र पुस्तकप्रशस्तिः । [ लेखनकाल अनुल्लिखित ] 20 इति परमाहतकुमारपालभूपालशुश्रूषिते आचार्य श्रीहेमचंद्रविरचिते अध्यात्मोपनिषन्नाम्नि संजात पट्टबन्धे योगशास्त्रे खोपज्ञद्वितीयप्रकाशविवरणं ॥ ३३०० ॥ दिशतु वः श्रियं शश्वत् श्रीमान् वीरजिनेश्वरः । प्रणयीकृतसिद्धार्थसिद्धार्थनृपनन्दनः ॥ १ ॥ सूराकः संज्ञया ख्यातः क्षत्रियाणां शिरोमणिः । श्रीमान् शांतिमदेवाख्यस्तस्य भ्राता गुणाग्रणीः ॥ २॥ तस्मात् पुत्रः कलाधाम सुकरानन्दितक्षितिः । विजपालो बुधश्चंद्रो झालाकुलनभस्तले ॥ ३ ॥ 25 बभूव प्रेयसी तस्य राज्ञी राजगुणान्विता । नीतादेवीति नीतिज्ञा धर्मारंभसदोद्यता ॥ ४ ॥ राणकः पद्मसिंहाख्यस्तनयो विनयी नयी । जनानां नयनानन्दी जज्ञे पुत्री तयोस्तथा ॥ ५॥ श्रीमती रूपलादेवी [ वैरि ]वीरप्रमाथिनी । पत्नी दुर्जनशल्यस्य साऽभूत् प्रेमवती सदा ॥ ६ ॥ श्रीदेवीकुक्षिजस्तस्योदयसिंहाभिधः सुतः । वैरिवारण विध्वंससिंहाद्वैतपराक्रमः ॥ ७ ॥ * पुस्तकमिदं स्तंभतीर्थे शान्तिनाथमन्दिरस्थितज्ञानकोशे विद्यते। + पत्तने खेतरवसहीपाटकावस्थितज्ञानकोशे विद्यते पुस्तकमिदं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy