SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह | ढाकभार्या जसिणीति नाम्नी तयोश्च पुत्राः षडमी प्रसिद्धाः । आद्येो बभौ राहणनामधेयस्ततो द्वितीयः किल सोहडाह्रः ॥ ५ ॥ आल्हणः पद्मकश्चैव ब्रह्माको बोडकस्तथा । बोडाकस्य च दयिता वीरी धर्मे प्रवीरधीः ॥ ६ ॥ चत्वारस्तनया यस्या बभूवुर्वसुधातले । देपालो देवसिंहश्च सोमाकः सलषोऽपि च ॥ ७ ॥ ....[ अग्रे किञ्चिदपूर्णेयं प्रशस्तिः ]..... .........॥ ८ ॥ [23] प्राग्वाटवंशीय-सांगा-गांगाभ्रातृयुगल लेखित कल्पसिद्धांत-पुस्तकप्रशस्तिः * । [ लेखनसमय १४२७ विक्रमाब्द ] वंशः प्राग्वाटनामोदयगिरिरसकौ तत्र भाखान्नवीनः, संजातो घांघसंज्ञः खजनजनमनः पंकजानां प्रकाशी । ध्वस्तध्वांतप्रचारो गुरुगुरुचरणध्यानरो चिः समूहैः कुर्वन्निःशेषदोषाकरकरनिकरच्छेदमुच्चैर्विशेषात् ॥ १ ॥ धांधाभार्यादेल्हणदेवीपुत्रैौ समग्रगुणनिलयौ । अर्जुन-झडसिलसंज्ञौ धन्यौ विज्ञौ च तौ जगति ॥ २ ॥ यशसार्जुनोऽर्जुन इति प्रथितोऽर्जुनवर्जनात् विकाशकरः । परमात्मतत्त्वरचनासु चिरं चतुरस्य यस्य चरति मनः ॥ ३ ॥ परीक्षिवंशोद्धरणप्रवीणो जयी चिरं स्तात् खजनावतंसः । सुश्रावकश्रेणिषु दानदेवपूजादिभिर्मुख्यतमोऽर्जुनोऽयं ॥ ४ ॥ सौजन्यशीला सहजल्लदेवी प्रिया प्रियालापपराऽर्जुनस्य । आस्ते गृहे खस्तिमती मतीनां गृहं गृहद्वारगतेव लक्ष्मीः ॥ ५ ॥ अर्जुनस्य तनयाः षडमी ते यान् निरुप्य विबुधाः कथयति । षण्मुखः किमु मुखं प्रति देहत्वं चकार सुभगं पृथक् पृथक् ॥ ६ ॥ मुंजालदेवः प्रथमं प्रतीतो धियां निधिर्धीधवरो द्वितीयः । गुणाकरोऽसौ गुणमल्लसंज्ञो धनाभिधो धन्यतमो जनेषु ॥ ७ ॥ कामार्थाविवतौ मूर्ती सांगा-गांगाभिधौ सुतौ । अर्जुनस्य प्रियालापपरौ - श्रीपूर्णिमापक्षपयः पयोधौ बभूव चंद्रो गुणचंद्रसूरिः । संप्रीणयद् भव्य चकोरपूगं ज्योत्स्नानिभैर्यो वचसां समूहैः ॥ ९ ॥ ...वामनौ ॥ ८ ॥ श्रीगुणभद्रसूरीणां स्फूर्तिमान् गुरुबान्धवः । मतिप्रभः प्रभाजालभासितावनिमंडलः ॥ १३ ॥ तस्य श्रीकल्प सिद्धांत पुस्तकं स्वस्तिकारकं । सांगा- गांगातनूजाभ्यां लेखयित्वाऽप्पितं नवं ॥ १४ ॥ कुलाद्रि-पेक्ष-वेदे-न्दु (१४२७) संख्यया समये गते । श्रीविक्रम महीपालात् मासे माधवसंज्ञके ॥ १५ ॥ अहमदाबादे, उजमबाई धर्मशाला संज्ञकस्थानावस्थितज्ञानभांडागारे विद्यते पुस्तकमिदम् । ११ जै० पु० ८१ Jain Education International For Private & Personal Use Only 5 पट्टे तदीये प्रबभूव भूरिसूरीश्वरस्थापनकृद् गणेशः । गुणप्रभाख्यो गुणरत्नराशिरत्नाकरः कल्मषवर्जितांगः ॥ १०॥ श्रीगुणप्रभगुरुर्गुरुताया भाजनं जनमनोऽब्धिशशांकः । आत्मकार्यविमुखः परकार्ये प्राणदानरसिकः स बभूव ॥ ११ ॥ 25 तत्पट्टपद्मकमलाहृदयैकहारः सारः श्रुतेन गुणवान् गुणभद्रसूरिः । सिद्धांतसागरविगाहनमंदराद्रिर्भव्यांबुजप्रकरबोधनबालसूरः ॥ १२ ॥ 10 15 20 30 www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy