SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । जाया सुभटसिंहस्य सोनिका हेमवर्णिका । तस्याः सुता जयंत्युच्चैरेते विदितविक्रमाः ॥ ६ ॥ तेजाको जयतश्चैव नावड[:] पातलस्तथा । एताः पुत्र्यश्च यस्या हि कामी नामल चामिकाः॥ ७ ॥ जाया स्थविरपालस्य श्राविका देदिकाभिधा । तस्याः सुताः षडेते च जयंति जगतीतले ॥ ८॥ नरपालश्च हापाकस्त्रिभुवनस्तु कालुकः । केल्हाकः पेथडश्चैव षडेते सुरसुंदराः ॥९॥ 5 स्थविरपालस्य साहाज्जा(य्या)त् श्रीरत्नप्रभसूरिभिः । विशालाया धर्मविधेः पुस्तकं वाचितं वरं ॥ १० ॥ (२) द्वितीया प्रशस्तिः । कच्छूलिकामंडनपार्श्वनाथपादारविंदस्य मरालतुल्यः । प्राग्वाटवंशे भुवनावतंसे बभूव पूर्व सहदेवनामा ॥ १ ॥ गुणचंद्रनामा तनयस्तदीयः श्रीवत्सनामा च तदंगजोऽभूत् । श्रीवत्सपुत्रा जगति प्रसिद्धा अमी बभूवुर्गुणराशिसंयुताः ॥ २ ॥ 10 छाहडो निरुपमाकृतिरूपो धर्मकर्मनिपुणो यशोभटः । श्रीकुमारतनयस्तु तृतीयो वीतरागगुरुपूजनापरः ।। ३ ॥ छाहडस्य च शाखायां श्रीमाणिक्यप्रभसूरयः । गुरवश्च ततो जाताः श्रीकमलसिंघसूरयः ॥ ४ ॥ यशोभटस्य शाखायां श्रीश्रीप्रभसूरयः । वयं च गुरवो जाताः प्रज्ञातिलकसूरयः ॥ ५॥ श्रीकुमारेण च पुरा वृद्धग्रामे अचीकरत् । श्रीकमलसिंघसूरीणां पदस्थापनमुत्तमं ॥ ६ ॥ श्रीकुमारदयिता अभयश्रीः सोभाकस्तदनु बोडकाभिधः । साल्हकः सुगुरुधर्मतत्परास्तस्य चैव तनयाः प्रबभूवुः ॥ ७ ॥ सोभाकस्य जायाभून्नाम्ना अविधवा सदा । सोला-गदाकनामानौ बभूवतुः सुतौ तयोः ॥ ८॥ गदाकस्य च जायाभूत् प्रथमा रतनिकाभिधा । श्रियादेवी द्वितीया च मूर्ति(|) लक्ष्मीरिवापरा ॥ ९॥ कर्मा-भीमाक नामानौ श्रियादेव्याश्च नंदनौ । भीमाकस्यैव दयिता रुक्मिणी रुक्मिणी परा ॥ १० ॥ रुक्मिण्याश्च त्रयः पुत्रा बभूवुर्धर्मकारकाः । लींबाकः सोहडश्चैव पेथाकश्च तृतीयकः ॥ ११ ॥ लीवाकभार्या गउरी प्रसिद्धा भक्तौ जिनेंद्रस्य जसाक-डूंगरौ । पुत्रौ द्वितीयौ (?) तदनु प्रसिद्धौ पुत्र्यश्च तिस्रो भुवने हि यस्याः ॥ १२ ॥ वींझिका तदनु तील्हिका श्रिया जैनशासनसरोरुह ग्यः । पूर्ववंशगुरुभक्तितत्पराः शीलरत्नभरिता भुवि पुत्र्यः ॥ १३ ॥ व्याख्यापितं श्रीउपदेशमालासुपुस्तकं श्राविकया च विंझ्या । खवंशरत्नप्रभसूरिपार्थात् समर्थनं श्राद्धजसेन कारितं ॥ १४ ॥ (३) तृतीया प्रशस्तिः । प्राग्वाटवंशे प्रबभूव पूर्व कच्चलिकायां पुरि पार्श्वनामा । तदंगजो देसलनामधेयो बभूवतुस्तत्तनयौ प्रसिद्धौ ॥ १ ॥ बहुदेव-चीरचंद्रौ पुत्रौ जातौ मनोरमौ । वीरचंद्रस्य पुत्रोऽभूत् मालकः पुण्यधारकः ॥२॥ मालकस्य तनया मनोरमा आसको गुणधरोऽपि हि सांवः। वीरकः सुकृतकार्यहीरकः आसकस्य तनयश्च सोलकः ॥ ३ ॥ सोलकस्य दयिता सरस्वती पंच यस्य तनयाः प्रबभूवुः । माल्हणस्तदनु पार्श्वचंद्रमा बूटरोऽथ महिचंद्र-सेढकौ ॥ ४ ॥ 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy