________________
.
5
जैनपुस्तकप्रशस्तिसङ्ग्रह । श्रीमालवंशोन्नतिकारणोऽभूत् श्रेष्ठी पुरा झांझणनामधेयः ।
पत्नी च तस्याऽजनि जयतुगाख्या सद्दानशीलादिगुणैकभूमिः ॥२॥ तत्पुत्रः श्राद्धधुरोऽजनि जनितनयो लूणसिंहाभिधानो, लीलादेवीति नाम्ना प्रथितगुणगणा प्रेयसी तस्य चासीत् । तत्पुत्रश्वाजनिष्ट प्रथमदृढवरः श्रावको मुंजनामा, मालाख्यश्च द्वितीयोऽजनि गुणनिभृतः साल्हकाख्यस्तृतीयः॥३॥
आद्या सुता माणिकिनामधेया सोषीति नाम्ना प्रथिता द्वितीया ।
पूजीति च ख्यातिमगात् तृतीया धुनीति नाम्ना विदिता च तुर्या ॥ ४ ॥ एता विरेजुः शुभभावपूर्णा लावण्यसिंहस्य सुताश्चतस्रः । चतुष्कषायज्वलनोपशांत्यै पीयूषकुल्या इव मूर्तिमत्यः॥५॥
___ पुण्याशयात् पंडितहर्षकीर्तिगणिभ्य एताभिरुदारधीभिः ।
अदीयतावश्यकपुस्तिकेयं सिद्धांतभक्त्या किल लेखयित्वा ॥६॥ नग-नगर-निवेशैमंडिता भूतधात्री जगति जयति तावत् वीरतीर्थे च यावत् ।
10 भवभयपरिमुक्तैः साधुभिर्वाच्यमाना भुवि जयतु नितान्तं पुस्तिकावश्यकस्य ॥ ७ ॥ __संवत् १३९१ वर्षे तिमिरपुरवास्तव्य व्य० लावण्यसिंहभार्यया लीलादेव्या पं० हर्षकीर्तिगणिभ्य आवश्यकपुस्तिका वाचनाय प्रदत्ता ॥
[८६] प्राग्वाटवंशीय श्रेष्ठिलीबा-श्रेयोऽर्थ-लिखित-धर्मविधिवृत्ति-पुस्तकप्रशस्तयः । 15
[लेखनसमय १४१८ विक्रमाब्द] -इति श्रीउदयसिंहाचार्यविरचिता उदयांका षड्वारा श्रीधर्मविधिवृत्तिः समाप्ता ॥ ग्रंथाप्र० ५५२० ॥
संवत् १४१८ वर्षे ची(चां)बामामे. श्रीनरचन्द्रसूरीणां बांधवेन पंडितगुणभद्रेण कच्छूली श्रीपार्श्वनाथगोष्ठिक लीया भार्या गउरी तत्पुत्र श्रावक जसा डूंगर तद्भगिनी श्राविका वीझी तील्ही प्रभृत्येषां साहाय्येन प्रभुश्रीश्रीप्रभसूरिविरचितं धर्मविधिप्रकरणं श्रीउदयसिंहसूरिविरचितां वृत्तिं श्रीधर्म-20 विधिग्रंथस्य कार्तिकवदिदशमीदिने गुरुवारे दिवसपाश्चात्यघटिकाद्वयसमये खमातृपित्रोः श्रेयसे श्रीधर्मविधिग्रंथमलिखत् ॥
(१) प्रथमा प्रशस्तिः । जावालिदुर्गे नगरे प्रधाने बभूव पूर्व धणदेवनामा । सहजल्हदेवी दयिता तदीया ब्रह्माक-लींबातनयौ च तस्याः ॥ १॥ गौरदेवी दयिता प्रबभूव लिंबकस्य तनयः कडुसिंहः। तस्य च प्रियतमा कडुदेवी तस्य चैव समभूद् धरणाकः ॥ २ ॥ ब्रह्माकपुत्रः प्रबभूव झंझणः प्राग्वाटवंशस्य शिरोमणिस्तु ।
आशाधरस्तस्य बभूव नंदनः पुत्रश्च तस्य प्रबभूव गोगिलः ॥ ३ ॥ गोगिलस्य तनयः प्रबभूव पद्मदेवसुकृती सुकृतज्ञः । तस्य चैव दयिता सुरलक्ष्मीजैनधर्मकरणैककोविदा ॥ ४ ॥30 अमी जयंति तनया यस्याश्च जगतीतले । सुभटसिंहः क्षेमसिंहः स्थिरपालस्तथैव च ॥ ५॥ * वनमयपत्रोपरि लिखितमिदं पुस्तकं पत्तने संघसत्कभांडागारे विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org