________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । तत्पट्टे विशुद्धे श्रीमंतो वीरदेवसूरींद्राः । तत्पट्टे सच्चरिताः धीमंतः कनकदेवाख्याः ॥ २१ ॥ ससुतो गुणधरः श्राद्धः पार्थे श्रीकनकदेवसूरीणां । धर्मोपदेशमतुलं शुश्रावेत्थमघापहं [जातु] ॥ २२ ॥ गुणानां सर्वेषां जगति जयिनी संपदनिशं, यया दोषाः सर्वे जगति गुणतां यांति गृहिणां । नवेद्भाव्याद्वस्या(१) जलधिजलकल्लोलचपला, परेषां सा केषां...........धर्मकार्ये ॥ २३ ॥ 5जिनबिंब-भवन-पुस्तक-तुर्यविधसंघ-सप्तक्षेत्रेषु । यो वपति बीजवित्तं लभते हि परत्र स बहुफलं ॥ २४ ॥ मुनिक्षेत्रान्तर्विशेषपुण्याय पुस्तकक्षेत्रं...................."यत्प्रभावाद् भवंति धर्मोपदेष्टारः ॥ २५॥ कलिकालकालविलसिततमसापिहितेन धर्मवररत्ने । श्रुतलिखितपुस्तकमये दीपे तत्प्रकटनं भविनां ॥ २६ ॥ केवलज्ञानपरिस्पर्धि श्रुतज्ञानमुदीरितं । अतस्तल्लेखने पुण्यमगण्यं गदितं जिनैः ॥ २७ ॥
इत्थं श्रुत्वा पुत्रसाहाय्यतोऽसौ श्रेष्ठी न्यायोपात्तवित्तेन हृद्यं ।। 10
शांतेर्वृत्तं लेखयामास शुद्धं पित्रोः [श्रेयार्थे ]......॥ २८ ॥
[८४] गूर्जरवंशीय-श्रा० रयणादेवी-क्रीत-भुवनसुन्दरीकथा-पुस्तकप्रशस्तिः ।
[पुस्तकक्रयसमय १३६५ विक्रमाब्द] श्रीमद्गुर्जरवंशप्रभवः संभवदनेकगुणविभवः । साधुहरिचंद्रसूनुः पुण्यश्रीकुक्षिसंभूतः ॥ १ ॥ 15 दुःस्थार्थिसंतापहरः प्रसिद्धः खच्छाशयश्वारुगुणान्वितश्च । मुक्तोपमानो वसुमान् सुवृत्तः समस्ति साधुर्नयपालनामा ॥२॥
तस्यास्ति जाया रयणाभिधाना दानादिसद्धर्मरता प्रधाना।। पुत्रास्त्वमी प्रौढविवेकचर्याः ख्यातास्त्रयो निर्मितसंघकार्याः ॥ ३ ॥ आद्यो वदान्यः कृतिलोकमान्यः प्राज्ञः सुधन्योऽजनि कीर्तिसिंहः ।
दानोद्यतोऽन्यस्त्विह देवसिंहः साल्हाभिधः साधुवरस्तृतीयः ॥ ४ ॥ 20 साधुनयपालपत्नी रयणादेवी विवेकधर्मज्ञा । पुस्तकमेनं श्रीभुवनसुंदरीसत्कथासत्कं ॥ ५ ॥ आत्मश्रेयोऽर्थमथ व्याख्यापयितुं जनोपकाराय । जगृहे मूल्येन मुदा बाणे-रस-शिखीं-( १३६५ )मितवर्षे ॥ ६॥
पुष्पदंताविमौ यावद् वर्तेते गगनांगणे । बुधैर्व्याख्यायमानोऽयं तावन्नंदतु पुस्तकः ॥ ७ ॥ भुवनसुंदरीकथापुस्तकं । सा० नयपालभारियणादेव्याः सत्कम् ।
[८५] __ श्रीमालवंशीय-श्रा० लीलादेवी-लेखित-आवश्यक-पुस्तकप्रशस्तिः ।
[लेखनकाल सं० १३९१ विक्रमाब्द ] यत्पादद्वितयावनम्रशिरसो भव्यासुमंतोऽनिश, जायंते सकलार्थसिद्धिसुभगास्त्रैलोक्यलोकोतमाः । श्रीसिद्धार्थनरेन्द्रवंशविलसद्रत्नत्रयीपोपमः, श्रीमद्वीरजिनेश्वरः स दिशतां नित्यं पदं भाविनां ॥ १ ॥
* पुस्तकमिदं स्तंभतीर्थे शांतिनाथमन्दिरस्थितभांडागारे विद्यते । इयं पुस्तिका पत्तने तपागच्छसंज्ञकभाण्डागारे विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org