________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[८३] प्राग्वाटान्वय-श्रे० गुणधर-लेखित-शान्तिनाथचरित्र-पुस्तकप्रशस्तिः ।
[लेखनसमय सं० १३३० विक्रमाब्द] -संवत् १३३० वर्षे आषाढ शुदि १० शनौ ।
॥ ॐ नमः सर्वज्ञाय ॥ स श्रीशान्तिः श्रिये वोऽस्तु योऽपूर्वो मृगलांछनः । अविनाशिरुचिच्छायः सदा द्योतः (१) प्रकाशकः ॥ १॥ सश्रीकं जिनमाहवन् (१) लवणिमालीलागृहं रत्नसूः, ...... पूर्णकलामवाप्य मुदितस्तन्वन्नदीनां स्थितिं । शश्वद्गोत्रप्रतिष्ठारुचिरसनिलयः साधुवृत्तः समजः (१), सत्त्वाधारः समुद्रोपम इह जयति प्राग्वाटनामान्वयः ॥२॥ तदन्वयेऽभूदु धनदानुकारी सन्मार्गशाखीव परोपकारी। धनेश्वरोधर्मधुरीणदेहस्तस्यांगजोऽभूद् धनदाकनामा ॥३॥ काशहदे वरनगरे धनदाकेनादिनाथजिनभुवने । मूलप्रतिमाऽभिनवाऽस्थाप्यत शुद्धेन वित्तेन ॥ ४॥ 10 श्रेष्ठिनो धनदाकस्य ब्रह्मदेवः सुतः शुभः । वाग्भटश्च सुता चैका लक्ष्मिणिः शीलशालिनी ॥ ५॥ पुत्रो गोगाकनामाऽभूद् बाहडस्य गुणश्रियः । गोगाक-सूमला पत्नी तयोः पुत्रत्रयं क्रमात् ॥ ६ ॥ ऊधिग-धांधू-आकडमुख्या साल्हु तथाऽपरा दुहिता। सौभाग्य-श्रीदेवीकाख्यौ पत्न्यौ शुभाकारे ॥ ७ ॥ भार्याऽभूद् ब्रह्मदेवस्य मंदोदरी शुभाशया । तयोः पुत्राश्चतुःसंख्या धर्मकर्मणि कर्मठाः ॥ ८ ॥ आल्हाकः सफलः कलंकरहितः खच्छाशयो धर्मधीः, साल्हाको महिमानिधानमतुलो वाक्येन सन्नंदकः। 15 राल्हाको गुरुपादपद्मभसलः सर्वज्ञपूजारतः, माल्हाकः सबलः सलीलगमनः सत्यव्रतालंकृतः ॥९॥ राल्हाक-कुमारदेव्योः पुत्रत्रितयं तु ब्रह्मणागाद्यः। काल्हूक-रत्नसिंहौ ब्रह्मी-सोहग-सुते द्वे च ॥१०॥ आल्हाकोऽर्जितवित्तादाभरणं श्रीयुगादिदेवस्य । आरत्रिकं च मंगलदीपयुतं कारयामास ॥ ११ ॥
'आल्हाक-रत्नदेव्यो रत्नत्रयधारकास्त्रयः पुत्राः । गुणधर-यशधर-समधरमुख्याश्चाहणिः सुता चैका ॥ १२ ॥ समधरभार्या कर्मणिः पुत्राः सप्त क्रमेण कालाद्याः ।
आसाऽऽसपाल-सेढा-पूना-हरिचंद्र-वयराख्याः ॥ १३ ॥ गुणधरभार्या खच्छा शीलतपोदानभावधर्मरता । राजमतिरंगजातास्तयोर्जनानंदकाः शस्याः ॥१४॥ पार्श्वभटो वीराक अंबा-लीबाक-सोमदेवाश्च । शीलू-हीरल-दुहिते जिनधर्मसदोद्यते एते ॥ १५॥
पासड-भार्या साजिणि पुत्रौ द्वौ विजयसिंह-नयणाको । वीरापत्नी राजश्रीः सूनुत्रितये तु जगपालः॥१६॥ हरपाल-देवपाली; आंबाभार्या च ललतुका श्रेष्ठा ।
नरपालः सुतश्चैको; लीबाकल्याण( भार्या !)पमाख्या ॥ १७ ॥ विजयश्री-यशधरयोर्नरसिंहसूनुरतिथिजनभक्तः । पाती दुहिता चैका कुटुंबमेतच्च सुविशालं ॥ १८ ॥ श्रीभुवनरत्नपूज्याः पारीद्रा वादिकुंजरेण । कांतारनिवृत्तिका गच्छधराः शुभाचाराः (१) ॥ १९ ॥
30 आनंदप्रभसूरींद्रास्तत्पदांभोजभानवः । सिद्धांतजलधिपारं प्रापुः प्रज्ञाप्रकर्षेण ॥ २० ॥
25
* इदं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरावस्थितज्ञानकोशे विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org