SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । ततश्च आसंश्चंद्रकरावदातसुयशोधौताखिलक्ष्मातले, श्रीचन्द्रप्रभसूरयो विधिधरोद्धारादिवाराहकाः । तत्पट्टे प्रथिताः क्षितौ पृथुगुणाः श्रीधर्मघोषाभिधा-स्तेषां चाऽभयघोष सूरितिलकाः प्राप्ताः प्रतिष्ठां पदे ॥ ८ ॥ तेषां शिष्यतमाः प्रबोधनिपुणाः विद्याकुमाराह्वयाः, दुर्दान्त क्षितिपालभालपदवीसंक्रांतचारुक्रमाः । पीत्वा तन्मुखकोटरान्तरगतां सदेशनावाक्सुधां सच्छ्रद्धाश्चितमानसा गुरुगिरा नीतल्लदेवी ततः ॥ ९॥ कारयामास पर्यां चैत्यं पार्श्वजिनेशितुः । भाविपुण्यार्जनाक्षेत्रं तथा पौषधशालिकां ॥ १० ॥ विवृर्ति योगशास्त्रस्य संप्राप्तपट्टबन्धिनः । सत्प्रपां श्रेयसे स्वस्य लेखयामास शुद्धधीः ॥ ११ ॥ यावद् व्योमपथावलंबि निखिलं तारागणं वर्तते, प्राच्यां यावदुदेत्ययं च सविता कुर्वन् तमोमाथनं । धत्ते यावदसौ फणापतिरिमां भूमिं फणायैः स्फुटं तावन्नंदतु पुस्तकं मुनिगणैर्व्याख्यायमानं सदा ॥ १२॥ ॥ मंगलं महाश्रीः । शुभं भवतु लेखक - पाठकयोः ॥ [ ९ ] प्राग्वाटवंशीय श्रे० धीणाक-लेखित सवृत्तिकाख्यानमणिकोश- पुस्तकप्रशस्तिः * । [ लेखनसमयोऽनिर्दिष्टः । ] - इति श्रीमदाम्र देवसूरिविरचिताख्यानमणिको शवृत्तिः । समाप्तमिति । मंगलं महाश्रीः । शिवमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः । दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ प्राग्वाटवंशतिलकोऽजनि पूर्णदेव - स्तस्यात्मजास्त्रय इह प्रथिता बभूवुः । दुर्वारमार करिकुंभविभेदसिंह स्तत्रादिमः सलखणोऽभिधया बभूव ॥ १ ॥ द्वितीयोऽभूद्वरदेवनामा तृतीयकोऽभूत् जिनदेवसंज्ञः । सोsन्येद्युरादत्त जिनेंद्रदीक्षां निर्वाणसौख्याय मनीषिमुख्यः ॥ २ ॥ अज्ञानध्वांतसूर्यः सरभसविलसदंगसंवेगरंग-क्षोणी क्रोधादियोधप्रतिहतिसुभटो ज्ञातनिः शेषशास्त्रः । निर्वेदांभोधिमग्नो भविककुवलयोद्बोधने ज्ञानचंद्रः, कालेनाचार्यवर्यः समजनि जगच्चंद्र इत्याख्यया हि ॥ ३ ॥ वरदेवस्य संजज्ञे वाल्हाविरिति गेहिनी । याऽभूत् सदा जिनेंद्रांहिकमलासेवनेऽलिनी ॥ ४ ॥ पुत्रास्तस्या साढलनामधेयाः “इत्याह्वयः वज्रसिंहाः । विवेकपात्री सहजू च पुत्री कुशीलसंसर्गतरोर्लवित्री ॥ ५ ॥ ८३ साढलस्य प्रिया जज्ञे राणूरिति महासती । पुत्रास्तु पंच तत्राद्यो धीणाख्यः शुद्धधर्मधीः ॥ ६ ॥ द्वितीयः क्षेमसिंहाख्यो भीमसिंहस्तृतीयकः । देवसिंहाभिधस्तुयों लघुर्महणसिंहकः ॥ ७ ॥ क्षेमसिंहाभिधो देवसिंहश्च भवभीरुकः । श्रीजगचंद्रसूरीणां पार्श्वे व्रतमशिश्रियत् ॥ ८ ॥ धtणाकस्य कडूर्नाम पत्नी मोढाभिधः सुतः । अन्येद्युः सुगुरोर्वाक्यं धीणाकः श्रुतवानिति ॥ ९ ॥ भोगास्तुं गतरंगभंगभिदुराः संध्या रागभ्रमो - पम्या श्रीर्नलिनीदल स्थितपयोलोलं खलु प्राणितं । तारुण्यं तरुणी कटाक्षतरलं प्रेमा तडि ज्ञात्वैवं क्षणिकं समं विदधतां धर्मं जनाः सुस्थिरम् ॥ १० ॥ सद्ज्ञानयुक्तो नियमवृषोधिभावन् महानंदपदप्रदायी । तत्रापि च खान्यविबोधकारी " *****... "श्रुतज्ञानमिहोत्तमं हि ॥ ११॥ * एतत्त्रैशस्तियुक्तं पुस्तकं स्तम्भतीर्थे शांतिनाथ मन्दिरस्थित ज्ञानभांडागारे विद्यते । Jain Education International For Private & Personal Use Only 5 10 15 20 25 30 www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy