________________
5
10
15
20
25
८४
जैनपुस्तकप्रशस्तिसङ्ग्रह |
तच्च कालमतिमांद्यदोषतः पुस्तकेषु भुवनकौशलैः । पूर्वसूरिभिरथो निवेशितं तद् वरं भवति तस्य लेखनं ॥ १२ ॥ एवं निशम्य तेन न्यायोपार्जितधनेन व्ययेन । आख्यानकमणिकोशस्य पुस्तकोऽयं व्यधायि मुदा ॥ १३ ॥ यावत् • • वाच्यमानो बुधैः ॥ १४ ॥
[ ९९ ]
1
ऊकेशवंशीय सा० ब्रह्मदेव लेखित श्रावकधर्मप्रकरणवृत्ति पुस्तकप्रशस्तिः * [ लेखनसमयो नोलिखितः ]
जातस्य पुंरत्नगणस्य यस्य सदा समृद्धेर्विधुवत् सदब्धेः ।
खानिः सुराणामपि सैष पृथ्व्यामूकेशवंशः प्रवरोऽर्थहेतुः ॥ १ ॥ मुक्तामणिस्तत्र बभौ सलक्षणः प्रिणीतवान् यः सततं विचक्षणान् । गुणानुविद्धान्तर उज्ज्वलात्मको हृदि प्रधार्यो मुनिपुंगवैरपि ॥ २ ॥ प्रल्हादनस्तस्य बभूव नंदनो यशोवनामोदविधूतनंदनः । तेजोऽतिदीप्तादविविक्तमाश्रितो वियुज्य सूराद् द्विगुणादधिभ्यतः (१) ॥ ३॥ तत्प्रिया नायका जज्ञेऽच्चितश्रीतीर्थनायका । निनाय कोऽपि यां शीलभूषाशाश्वतिकीं श्रियं ॥ ४ ॥ तयोस्तनूजौ जिनदे [व] - ब्रह्मदेवो महाशयैौ । उदारस्फुरत्तेजस्कौ महौजस्कौ शुभाश्रयौ ॥ ५ ॥ प्राप्तामात्यपदस्य रायमलयात् सिंहाद्य उद्यत्प्रभो-र्यस्यारातिगणः समूलमगमन्नाशं प्रभावेऽनघे । श्रीजावालिपुरे द्वितीयजिनराजोऽष्टाहिकां योऽद्भुतां, चैत्रे मासि तृतीयिकां वितनुते मन्ये वृषोद्यानिकां ॥ ६ ॥
1
इन्दुः पूर्णमदन्तरोचिरिषवः सन्मानसं क्रीडनावल्हावं खो ( ? ) दर्शनराजहंससुभगं ज्योतिः प्रकृष्टात्मकं । लक्ष्मीर्दानवशीकृता प्रतियुगं यस्याभवत् सेविका सोऽयं धर्ममुखैश्चतुर्मुखकृतभिः सभ्रमस (?) ब्रह्मदेवः परः ॥ ७ ॥ प्रल्हादनस्य तनया विनयान्विता इमाः सा चाहिनी ननु सुवर्णनिका सरखती । तुर्याच संपदभिधा जिनधर्मवासिता आवासिता अविकलोज्ज्वलशीलकेलिभिः ॥ ८ ॥ शीलालंकरणं विभाति विमलं श्रीब्रह्मदेवस्य सा, दाक्षिण्यादिगुणोज्ज्वला अपमला पुत्री तथा कर्मिणी । श्रीजाबालिपुरे जिनेशभवने स्वश्रेयसेऽष्टाहिकां, चैत्रे मासि चतुर्थिकां गुरुतरां चक्रे तथा खस्तिकां ॥ ९ ॥ सोदर्याः सुकृते श्रीस्वर्णगिरेस्तथा खजननीश्रेयोऽर्थमष्टाहिकां चैत्रे मासि ... मथ सुवर्णीन्याः शुभायाश्विने । ॥ १०॥ षष्ठीमारचयन् सदापि हि महं व्या श्री भीमदेवसुर्नव्यां धीपुण्यफलावलिं खजनसाकृत्वा (?) ।
..... एतस्याधात्पूर्णिनी पूर्णिमालांछन त्वं ..... ............. हन्तात्यं तमोध्वंसमाना ॥ ११ ॥ गंगाप्रवाहा इव तस्य पुत्रास्त्रयः पवित्रा जयदेव नामा | कुमारसिंहोऽपि च लक्षणश्च खच्छाशया धर्मरसेन पूर्णाः ॥ १२ ॥ • तस्य गुणोदधिका समभवत् प्रल्हादनस्यांगजा । - प्रागुक्तैव सरखती प्रणयिनी पुण्योर्मिसंवर्मिता ॥ १३ ॥
षोढावश्यककारिणी -
* एतत्प्रशस्तियुक्तं पुस्तकं स्तंभतीर्थे आचार्यवर्य श्री विजयने मिसूरि सत्कज्ञानकोशे विद्यते । द्रष्टव्यम् - जैन साहित्य प्रदर्शनप्रकाशित प्रशस्तिसंप्रहे, पृ० ९२-९३ । + भ्रष्टप्रायमेतत्पद्ययुगलं मुद्रितसंग्रहे लभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org