Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 115
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । तत्पट्टे विशुद्धे श्रीमंतो वीरदेवसूरींद्राः । तत्पट्टे सच्चरिताः धीमंतः कनकदेवाख्याः ॥ २१ ॥ ससुतो गुणधरः श्राद्धः पार्थे श्रीकनकदेवसूरीणां । धर्मोपदेशमतुलं शुश्रावेत्थमघापहं [जातु] ॥ २२ ॥ गुणानां सर्वेषां जगति जयिनी संपदनिशं, यया दोषाः सर्वे जगति गुणतां यांति गृहिणां । नवेद्भाव्याद्वस्या(१) जलधिजलकल्लोलचपला, परेषां सा केषां...........धर्मकार्ये ॥ २३ ॥ 5जिनबिंब-भवन-पुस्तक-तुर्यविधसंघ-सप्तक्षेत्रेषु । यो वपति बीजवित्तं लभते हि परत्र स बहुफलं ॥ २४ ॥ मुनिक्षेत्रान्तर्विशेषपुण्याय पुस्तकक्षेत्रं...................."यत्प्रभावाद् भवंति धर्मोपदेष्टारः ॥ २५॥ कलिकालकालविलसिततमसापिहितेन धर्मवररत्ने । श्रुतलिखितपुस्तकमये दीपे तत्प्रकटनं भविनां ॥ २६ ॥ केवलज्ञानपरिस्पर्धि श्रुतज्ञानमुदीरितं । अतस्तल्लेखने पुण्यमगण्यं गदितं जिनैः ॥ २७ ॥ इत्थं श्रुत्वा पुत्रसाहाय्यतोऽसौ श्रेष्ठी न्यायोपात्तवित्तेन हृद्यं ।। 10 शांतेर्वृत्तं लेखयामास शुद्धं पित्रोः [श्रेयार्थे ]......॥ २८ ॥ [८४] गूर्जरवंशीय-श्रा० रयणादेवी-क्रीत-भुवनसुन्दरीकथा-पुस्तकप्रशस्तिः । [पुस्तकक्रयसमय १३६५ विक्रमाब्द] श्रीमद्गुर्जरवंशप्रभवः संभवदनेकगुणविभवः । साधुहरिचंद्रसूनुः पुण्यश्रीकुक्षिसंभूतः ॥ १ ॥ 15 दुःस्थार्थिसंतापहरः प्रसिद्धः खच्छाशयश्वारुगुणान्वितश्च । मुक्तोपमानो वसुमान् सुवृत्तः समस्ति साधुर्नयपालनामा ॥२॥ तस्यास्ति जाया रयणाभिधाना दानादिसद्धर्मरता प्रधाना।। पुत्रास्त्वमी प्रौढविवेकचर्याः ख्यातास्त्रयो निर्मितसंघकार्याः ॥ ३ ॥ आद्यो वदान्यः कृतिलोकमान्यः प्राज्ञः सुधन्योऽजनि कीर्तिसिंहः । दानोद्यतोऽन्यस्त्विह देवसिंहः साल्हाभिधः साधुवरस्तृतीयः ॥ ४ ॥ 20 साधुनयपालपत्नी रयणादेवी विवेकधर्मज्ञा । पुस्तकमेनं श्रीभुवनसुंदरीसत्कथासत्कं ॥ ५ ॥ आत्मश्रेयोऽर्थमथ व्याख्यापयितुं जनोपकाराय । जगृहे मूल्येन मुदा बाणे-रस-शिखीं-( १३६५ )मितवर्षे ॥ ६॥ पुष्पदंताविमौ यावद् वर्तेते गगनांगणे । बुधैर्व्याख्यायमानोऽयं तावन्नंदतु पुस्तकः ॥ ७ ॥ भुवनसुंदरीकथापुस्तकं । सा० नयपालभारियणादेव्याः सत्कम् । [८५] __ श्रीमालवंशीय-श्रा० लीलादेवी-लेखित-आवश्यक-पुस्तकप्रशस्तिः । [लेखनकाल सं० १३९१ विक्रमाब्द ] यत्पादद्वितयावनम्रशिरसो भव्यासुमंतोऽनिश, जायंते सकलार्थसिद्धिसुभगास्त्रैलोक्यलोकोतमाः । श्रीसिद्धार्थनरेन्द्रवंशविलसद्रत्नत्रयीपोपमः, श्रीमद्वीरजिनेश्वरः स दिशतां नित्यं पदं भाविनां ॥ १ ॥ * पुस्तकमिदं स्तंभतीर्थे शांतिनाथमन्दिरस्थितभांडागारे विद्यते । इयं पुस्तिका पत्तने तपागच्छसंज्ञकभाण्डागारे विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218