Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 111
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । सद्धर्म्मव्यवहारिदेसलसुतः ख्यातः क्षितौ सर्वतः, प्राग्वादान्वयमंडनं समभवन्मेघाख्यसंघाधिपः । जाया मीणलदेवी नाम विदिता तस्य प्रशस्याशया, पुत्री पुण्यवती तयोर्गुणवती स्याणीति संज्ञाऽभवत् ॥ १ ॥ सम्यग्दृग् नरसिंह गान्धिकसुतः श्रद्धालुवर्गाप्रणीः, जज्ञे गागलदेवि सूर्धणिगाद्दानः प्रधानः सदा । जाया याऽजनि तस्य शस्यचरिता पुण्यक्रियाप्रत्यला, नित्यं श्रीजिनपूजनैकरसिका दानादिवद्धारा ॥ २ ॥ 5 श्रुत्वा श्रीगुरुदेव सुन्दर महाधर्मोपदेशं तया वर्षे विक्रमतो नभः शरै- नदीनाथेन्दुसंख्ये स्वकम् । द्रव्यं भूरि वितीर्य पुस्तकमिदं सुश्रेयसे लेखितं नित्यं नंदतु वाच्यमानमनघैर्मेधाविभिः साधुभिः ॥ ३ ॥ ॥ शिवमस्तु श्रीः ॥ ७४ [ ७९] माथुरान्वयजात संयतिका जाहिणी- लिखापित- ज्ञानार्णव- पुस्तकप्रशस्तिः * । [ लेखन संवत् १२८४ विक्रमीय ] - इति ज्ञानार्णवे योगप्रदीपाधिकारे पंडिताचार्य श्री शुभचन्द्र विरचिते मोक्षप्रकरणम् । अस्यां श्रीमन्नृपुर्या श्रीमदर्हद्देवचरणकमलचंचरीकः सुजनजनहृदय परमानन्द कंदलीकंदः श्रीमाथुरान्वयसमुद्रचंद्रायमानो भव्यात्मा परमश्रावकः श्रीनेमिचन्द्रो नामाऽभूत् । तस्याखिलविज्ञान कला कौशलशालिनी सती पतित्रतादिगुणगणालंकार भूषितशरीरा निजमनोवृतिरिवाव्यभिचारिणी स्वर्णा नाम धर्मपत्नी संजाता । अथ तयोः 15 समासादितधर्मार्थकामफलयोः स्वकुलकुमुदवनचंद्रलेखा निजवंशवैजयंती सर्वलक्षणालंकृतशरीरा जाहिणी नाम पुत्रिका समुत्पन्ना ॥ छ ॥ 10 20 25 ततो गोकर्ण - श्रीचन्द्रौ सुतौ जातौ मनोरमौ । गुणरत्नाकरौ भन्यौ राम-लक्ष्मणसन्निभौ ॥ सा पुत्री नेमिचन्द्रस्य जिनशासनवत्सला । विवेकविनयोपेता सम्यग्दर्शनलांछिता ॥ ज्ञात्वा संसारवैचित्र्यं फल्गुतां च नृजन्मनः । तपसे निरगाद् गेहाद् शांतचित्ता सुसंयता ॥ बांधवैर्वार्यमाणापि प्रणतैः शास्त्रलोचनैः । मनागपि मनो यस्या न प्रेम्णा कश्मलीकृतं ॥ गृहीतं मुनिपादान्ते तया संयतिकात्रतं । खीकृतं च मनः शुद्ध्या रत्नत्रयमखंडितं ॥ तया विरक्तयाऽत्यंतं नवे वयसि यौवने । आरब्धं तत् तपः कर्तुं यत् सतां साध्विति स्तुतं ॥ यम-व्रत-तपोद्योगैः स्वाध्याय- ध्यान-संयमैः । कायक्लेशाद्यनुष्ठानैर्गृहीतं जन्मनः फलं ॥ तपोभिर्दुष्करैर्नित्यं बाह्यान्तर्भेदलक्षणैः । कषायरिपुभिः सार्द्ध निःशेषं शोषितं वपुः ॥ विनयाचारसंपत्त्या संघः सर्वोप्युपासितः । वैयावृत्त्योद्यमात् शश्वत् कीर्तिनींता दिगन्तरे ॥ किमियं भारती देवी किमियं शासनदेवता । दृष्टपूर्वैरपि प्रायः पैौरैरिति वितर्क्यते ॥ तया कर्मक्षयस्यार्थं ध्यानाध्ययनशालिने । तपः श्रुतनिधानाय तत्त्वज्ञाय महात्मने ॥ रागादिरिपुमल्लाय शुभचंद्राय योगिने । लिखाप्य पुस्तकं दत्तमिदं ज्ञानार्णवाभिधम् ॥ 1 संवत् १२८४ वर्षे वैशाष शुदि १० शुक्रे गोमंडले दिगम्बर राजकुल सहस्रकीर्तिस्या (?) थें 30 पं० केशरिसुतवीसलेन लिखितमिति ॥ * पुस्तकमिदं पत्तने खेतरवसही पाटका वस्थितज्ञानकोशे विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218