________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
सद्धर्म्मव्यवहारिदेसलसुतः ख्यातः क्षितौ सर्वतः, प्राग्वादान्वयमंडनं समभवन्मेघाख्यसंघाधिपः ।
जाया मीणलदेवी नाम विदिता तस्य प्रशस्याशया, पुत्री पुण्यवती तयोर्गुणवती स्याणीति संज्ञाऽभवत् ॥ १ ॥ सम्यग्दृग् नरसिंह गान्धिकसुतः श्रद्धालुवर्गाप्रणीः, जज्ञे गागलदेवि सूर्धणिगाद्दानः प्रधानः सदा । जाया याऽजनि तस्य शस्यचरिता पुण्यक्रियाप्रत्यला, नित्यं श्रीजिनपूजनैकरसिका दानादिवद्धारा ॥ २ ॥ 5 श्रुत्वा श्रीगुरुदेव सुन्दर महाधर्मोपदेशं तया वर्षे विक्रमतो नभः शरै- नदीनाथेन्दुसंख्ये स्वकम् । द्रव्यं भूरि वितीर्य पुस्तकमिदं सुश्रेयसे लेखितं नित्यं नंदतु वाच्यमानमनघैर्मेधाविभिः साधुभिः ॥ ३ ॥ ॥ शिवमस्तु श्रीः ॥
७४
[ ७९]
माथुरान्वयजात संयतिका जाहिणी- लिखापित- ज्ञानार्णव- पुस्तकप्रशस्तिः * । [ लेखन संवत् १२८४ विक्रमीय ]
- इति ज्ञानार्णवे योगप्रदीपाधिकारे पंडिताचार्य श्री शुभचन्द्र विरचिते मोक्षप्रकरणम् ।
अस्यां श्रीमन्नृपुर्या श्रीमदर्हद्देवचरणकमलचंचरीकः सुजनजनहृदय परमानन्द कंदलीकंदः श्रीमाथुरान्वयसमुद्रचंद्रायमानो भव्यात्मा परमश्रावकः श्रीनेमिचन्द्रो नामाऽभूत् । तस्याखिलविज्ञान कला कौशलशालिनी सती पतित्रतादिगुणगणालंकार भूषितशरीरा निजमनोवृतिरिवाव्यभिचारिणी स्वर्णा नाम धर्मपत्नी संजाता । अथ तयोः 15 समासादितधर्मार्थकामफलयोः स्वकुलकुमुदवनचंद्रलेखा निजवंशवैजयंती सर्वलक्षणालंकृतशरीरा जाहिणी नाम पुत्रिका समुत्पन्ना ॥ छ ॥
10
20
25
ततो गोकर्ण - श्रीचन्द्रौ सुतौ जातौ मनोरमौ । गुणरत्नाकरौ भन्यौ राम-लक्ष्मणसन्निभौ ॥ सा पुत्री नेमिचन्द्रस्य जिनशासनवत्सला । विवेकविनयोपेता सम्यग्दर्शनलांछिता ॥ ज्ञात्वा संसारवैचित्र्यं फल्गुतां च नृजन्मनः । तपसे निरगाद् गेहाद् शांतचित्ता सुसंयता ॥ बांधवैर्वार्यमाणापि प्रणतैः शास्त्रलोचनैः । मनागपि मनो यस्या न प्रेम्णा कश्मलीकृतं ॥ गृहीतं मुनिपादान्ते तया संयतिकात्रतं । खीकृतं च मनः शुद्ध्या रत्नत्रयमखंडितं ॥ तया विरक्तयाऽत्यंतं नवे वयसि यौवने । आरब्धं तत् तपः कर्तुं यत् सतां साध्विति स्तुतं ॥ यम-व्रत-तपोद्योगैः स्वाध्याय- ध्यान-संयमैः । कायक्लेशाद्यनुष्ठानैर्गृहीतं जन्मनः फलं ॥ तपोभिर्दुष्करैर्नित्यं बाह्यान्तर्भेदलक्षणैः । कषायरिपुभिः सार्द्ध निःशेषं शोषितं वपुः ॥ विनयाचारसंपत्त्या संघः सर्वोप्युपासितः । वैयावृत्त्योद्यमात् शश्वत् कीर्तिनींता दिगन्तरे ॥ किमियं भारती देवी किमियं शासनदेवता । दृष्टपूर्वैरपि प्रायः पैौरैरिति वितर्क्यते ॥ तया कर्मक्षयस्यार्थं ध्यानाध्ययनशालिने । तपः श्रुतनिधानाय तत्त्वज्ञाय महात्मने ॥ रागादिरिपुमल्लाय शुभचंद्राय योगिने । लिखाप्य पुस्तकं दत्तमिदं ज्ञानार्णवाभिधम् ॥
1
संवत् १२८४ वर्षे वैशाष शुदि १० शुक्रे गोमंडले दिगम्बर राजकुल सहस्रकीर्तिस्या (?) थें 30 पं० केशरिसुतवीसलेन लिखितमिति ॥
* पुस्तकमिदं पत्तने खेतरवसही पाटका वस्थितज्ञानकोशे विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org