SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह। [७७] श्रीमालवंशीय-श्रे० कर्मण-लेखित-[तिलकाचार्यकृत] आवश्यकलघुवृत्ति पुस्तकप्रशस्तिः । [ लेखनकाल सं० १४९२ विक्रमाब्द ] अणहिलपुरमस्ति स्वस्तिकप्रायमूळ, नयविनयविवेकच्छेकलोकावरुद्धम् । अपरनगरशोभागर्वसर्वखजैत्रं, वरजिनगृहमालास्वर्विमानोपहासि ॥ १॥ श्रीश्रीमालकुलस्तत्र राबाख्यः श्रेष्ठिपोऽभवत् । नानादानादिसद्धर्मकर्मकर्मठमानसः ॥ २ ॥ तस्य राजलदेवीति जायाऽजायत सद्गुणा । विवेकविनयप्रह्वा शीलालंकारधारिणी ॥ ३ ॥ सांडा-सोमा-मेघा-भपति-पांचाहयास्तयोः पंच । पुत्राः सुतीर्थयात्राद्यवाप्तसंघाधिपत्यपदाः ॥ ४॥ नामस्तवपंचशतीकायोत्सर्गकतत्परः सततम् । सांडाख्यः संघपतिर्विशिष्य तेष्वद्भुतक्रियो जज्ञे ॥ ५॥ 10 तेषां सांडादीनां पंचानामपि च पंच पत्न्योऽमूः । कामलदेवी सिंगारदेश्च माणिक्यदेवी च ॥६॥ भावलदेवी पाल्हणदेवी ख्याताः सुशीलतः क्रमतः । श्रीदेवगुरुषु भक्ताः सक्ताः सद्धर्मकर्मविधौ ॥ ७॥-युग्मं । सांडा-कामलदेव्योस्तनयाः पंचाऽभवन् क्रमादेते । श्रीधर्मकर्मकुशलाः सम्यक्त्वाद्यैर्गुणैः प्रथिताः ॥ ८ ॥ नाख्यः प्रथमस्तेषां धर्मणः कर्मणस्तथा । डाहाख्यश्च चतुर्थोऽस्ति योधाख्यः पंचमः पुनः॥९॥ पुत्र्यौ तथा द्वे गुणराजिराजिते पूरीति वाधूरिति विश्रुताभिधे । 15 यन्मानसं श्रीदेवगुरुभक्तियुक् श्रीधर्मपीयूषरसेन पूरितम् ॥ १० ॥ दयिताः क्रमतस्तेषां विमलान्वयविनयशीलसंपन्नाः । रतनू कांऊ मांई मांकू वाल्हीति नामानः ॥ ११ ।। मनाकस्य समधरः सालिगश्च सुतावुभौ । धर्मणस्य संघपतेर्हर्षा-बाला-भिधौ पुनः ॥ १२ ॥ डाहाकस्य माई आद्या हंसो योधांगजस्तथा । सर्वेऽप्यमी गुणमणिश्रेणिरोहणभूधराः ॥ १३ ॥ नानाविधान् धर्मविधीन् सृजन् सदा विशुद्धधीः संघपतिस्तु कर्मणः। श्रीज्ञानभक्ति विशदां हृदा दधद् द्रव्यव्ययेन प्रचुरेण हर्षतः ॥ १४ ॥ ष्ठि-साल्हाक-सिंगारदेवीपुत्र्या पवित्रया । माईनान्याऽनिशं शुद्धक्रियया प्रिययान्वितः ॥ १५॥ श्रीसोमसुन्दरगुरुपवरोपदेशात् खश्रेयसे द्विनव-वॉर्द्धि-शशांकवर्षे ।। आवश्यकस्य लघुवृत्तिमलेखयत् श्रीताडीयपुस्तकवरे दृढधर्मभावः ॥ १६ ॥ पुस्तकेष्वपरेवन्ये ग्रन्थास्तेनाथ लेखिताः । अयं च वाच्यमानास्ते जीयासुर्विबुधैश्विरम् ॥ १७॥ 25 ॥ श्रीसोमसुन्दरसूरिगुरवो जयंतु । श्रीः । छ । ठ० वैकुंठ ठ० कुंठा ॥ [७८] प्राग्वाटवंशीय-श्रा० स्याणी-लेखित-आचारांगसूत्र-वृत्ति-पुस्तकप्रशस्तिः। [लेखनकाल सं० १४५० विक्रमाब्द] ॥ संवत् १४५० वर्षे भाद्रपद वदि १ शुक्रे रेवत्यां पुस्तकं लिखितम् । *पुस्तकमिदं पत्तने संघवीपाडासत्कज्ञानभाण्डागारे विद्यते । + पुस्तकमिदं पत्तने संघवीपाडासत्कभांडागारे विद्यमानमस्ति । १०० पु. 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy