________________
5
10
15
20
25
७२
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
तत्राद्यो वीरचन्द्राख्यो विख्यातो निर्मलैर्गुणैः । कृतगुरुदेवसेवो वीरदेवाभिधोऽपरः ॥ ६ ॥ तृतीयः पूर्णपालः श्रीश्रेयसां भाजनं परम् । यथाक्रममथामीषां भार्याः सचर्ययान्विताः । राजिनी प्रमुखाः सख्यं यासां साध्वीभिरायतम् ॥ ७ ॥ पंचाथ पुत्रिका जाताः सुपवित्राश्च ..... । पित्रोर्विनयकारिण्यो वरेण्यगुणराजिताः ॥ ८ ॥ तत्रादिमा बान्धवलोकमान्या पैशून्यशून्यादितमन्युदैन्या ।
नाना प्रतीता सरणीति धन्या यशोवदाता सुतरां वदान्या ॥ ९ ॥ प्रियवाक्यप्रयोगेन प्रीणिताखिलदेहिनः । पासडवणिजः पत्नी श्रावकस्य विवेकिनः ॥ १० ॥ द्वितीया मरुदेवीति गणिनी गुणशालिनी । ज्ञानदर्शनचारित्र [ रत्नत्र ]यविभूषिता ॥ ११ ॥ तृतीया श्रितसंतोषा संतोषेति सुविश्रुता । यशोमतिरिति ख्याता तुर्या बहुयशोमतिः ॥ १२ ॥ विनयश्रीरिति ख्याता गणिनी पंचमे जने । मरुदेवी गणिन्यास्तु सदान्तेवासिनी परा ॥ १३ ॥ यन्नैर्मल्यं निभाल्यैवानन्यतुल्यं निशाकरः । लज्जितों कच्छलेनान्तः कालुष्यं बिभ्रते भृशम् ॥ १४ ॥ अथान्यदा वाचमुवाच .....सरणी गुरूणाम् । यथा महार्था जिनभाषिता गीराराध्यमाना विनिहन्ति मोहं ॥ १५॥ निशम्य चैवं संजातबुद्धिर्जिनवरागमम् । लेखयितुं सुतं पृष्ट्वा विमलचन्द्रनामकम् ॥ १६ ॥ द्वितीयं च देवचन्द्रं च धर्मसम्बद्धचेतसम् । तृतीयं च यशश्चन्द्रं सुकृतन्यकृतांहसम् ॥ १७ ॥ तैरेव कृतसाहाय्या धनदानेन भूयसा । भगिनीभिश्च संतोषाप्रमुखाभिः खेच्छया ॥ १८ ॥ पुस्तकमे तदली लिख दिहोत्तराध्ययनटीकायाः । प्रांजलपंक्तिविशिष्टं विविक्तरेखाक्षरशोभम् ॥ १९ ॥ सूर्याचन्द्रमसौ यावद् यावद्दीपाः ससिंधवः । पठ्यमानो बुधैस्तावन्नंदत्वेष सुपुस्तकः ॥ २० ॥
[ ७६ ]
श्रीमालवंशीय श्रा० धर्मिणि-लेखित चन्द्रप्रज्ञप्तिवृत्ति-पुस्तक प्रशस्तिः * ।
[ लेखनकाल सं० १४८१-८३ विक्रमाब्द ]
- इति श्री मलयगिरिविरचिता चन्द्रप्रज्ञप्तिटीका समाप्ता । मंगलं महाश्रीः । शुभं भवतु श्रीचतुर्विधसंघस्य । ग्रंथाग्रं० ९५०० ॥ संवत् १४ आषाढादि ८१ वर्षे भाद्रपदवदि १ शनौ 1 श्रीश्रीमालकुले तेजा मंत्री वानूश्च तत्प्रिया । आसंस्तत्तनया मेला - मेघा - सेगाह्वयस्त्रयः ॥ १ ॥ तेषां डाही-धर्मिणि-कांऊ नाश्यः क्रमादिमाः पत्न्यः । मेलापुत्रा गोरा-सांई आ- रामदेव-चांगाख्याः ॥ २ ॥
इतश्च मेघादयिता धर्मिणिर्धर्मकर्मठा । घोघानगरवास्तव्यमंत्री सिंघातनूद्भवा ॥ ३॥ कडुआ धांगाबंधुप्रभृतिकुटुंबान्विता सुधर्मरता । श्रीमज्जैनेंद्रागमभक्ति भरोल्लसितचेतस्का ॥ 11 तपाधिपश्रीगुरुसोमसुन्दरोपदेशतत्र्यष्ट दिगिंदु ( १४८३ ) वत्सरे ।
अलीलिखत् स्वस्य हिताय चन्द्रप्रज्ञप्तिवृत्तिं वरताडपुस्तके || ५ |
पुस्तकमिदं पत्तने संघवी पाडावस्थितज्ञानभाण्डागारे विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org