________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । आसीत् प्राग्वटवंशे विमलतरमतिर्विश्वविख्यातकीर्तिः, सद्बुद्धिर्वाहलाख्यो जिनपतिचरणाराधने न्यस्तचित्तः। तस्याभूत् साधुशीला जिनमतिगृहिणी धर्ममार्गानुरक्ता, या शक्ता जानकीव प्रवरगुणगणै रामदेवस्य मान्या ॥१॥ जातौ तस्याश्च पुत्रौ विनय-नयपरौ ग्रामणीः श्रावकाणां, एकः सद् यक्षदेवः प्रकटगुणगणः.........."द्वितीयः । ज्येष्ठस्याभूत् सुपत्नी जिनवृषकलिता पोयणी....", दीनानाथादिदाने वितरणचतुरा शांति-दांतिप्रसन्ना ॥ २॥
सुता जातास्तस्यास्त्रयनरगुण......................', यशोदेवश्चाद्यः प्रथितगुणदेवाख्य इतरः। 5 तृतीयो जिन्दाख्यो जिनपतिमतभावितमतिः, सुता जासीत्याख्या विनयकलिता कर्मनिरता ॥ ३ ॥ ................मात्रा निजश्रेयसे संशुद्ध भणितेन पुस्तकमिदं जिंदाभिधेन स्फुटम् । श्रेष्ठं लेखितमागमस्य विबुधैर्द्वधा सुमान्यं सदा, नानावर्णसुपत्र..........."रत्नाकरम् ॥ ४ ॥ यावत्तारकनायकौ दिनकरौ देवाचलस्तोयधिर्यावज्जैनमतं वरं सुरनदी वर्गों दिशां मंडलम् । यावच्छेषफणावलीषु जगती . तावन्नंदतु पुस्तकं प्रतिदिनं पापठ्यमानं बुधैः ॥ ५॥ 10
[७४]
प्राग्वाटवंशीय-श्रा० वरसिंह-लेखित हैमव्याकरणावचूरि-पुस्तकप्रशस्तिः*।
[लेखनकालो नोल्लिखितः] श्रीवीतरागं प्रणिपत्य भक्त्या हैमावचूरेः शुभपुस्तिकायाः । .................... प्रशस्तिं ॥ १ ॥ प्राग्वाटवंशोज्ज्वलमौक्तिकाभः सुश्रावकः पूनडनामधेयः। निशम्य शास्त्राणि भुवि द्विधापि""प्राप परीक्षकत्वं ॥२॥ 15 क्षेत्रेषु सप्तखथ दुःस्थितेषु न्यायात्तवित्तं वितरनजसं । अचिंत्यदानादि..................यशांसि लोके ॥ ३ ॥ तद्गेहिनी श्रीरिव देहिनीह तेजीति नामास्ति जिनेन्द्रभक्ता । विनीत............... "गुणावदाता ॥ ४ ॥ तत्सूनुरन्यूनगुणः प्रधानो जिनेश्वरध्यानकृतावधानः । दोर्दैड....."मांडलिक............लिषाभिधानः ॥ ५॥ यदीयबंधुर्धरसिंहसंज्ञः श्रीसार्वगुर्वर्चनकृत्यविज्ञः । हैमावचूरिर्दशपद..................लेखितमत्र तेन ॥ ६ ॥ [७५]
20 प्राग्वाटवंशीय-श्रा० सरणी-लेखित-सटीकउत्तराध्ययनसूत्र-पुस्तिकाप्रशस्तिः।।।
[लेखनकाल सं० १४०० (१) विक्रमाब्द ]
॥ नमः सर्वज्ञाय ॥ सन्मर्यादो गभीरो घनरसनिचितः साधुपाठीनहेतु-नित्यं लक्ष्म्या निवासः कुलधरनिलयः सद्वसुस्थानुमुच्चैः । कुल्याधारो गरीयान् प्रचुरतरलसत्कोटिपात्रोपशोभी, वंशः प्राग्वाटपुंसां क्षितितलविदितो वर्तते सिंधुकल्पः ॥ १ ॥ 25 तत्राभवद् देवगजोपमानः सलीलगामी बहुदानवर्षः। यो नामतः ख्यातिमितोऽर्थतश्च जने भृशं शोभित इत्युदात्तः ॥२॥
पारिग्राहिकतां प्राप्तः स्थाने धान्येरकाहये । प्रजासु राजवर्गे च मान्यो मन्युविवर्जितः ॥ ३ ॥ सुदन्ती दन्तिनीवाभूत् भार्या तस्येह रुक्ष्मणी । सलीलगमना कामं सुवंशोन्नतशालिनी ॥ ४ ॥ जातस्तयोस्ततनयास्तनया विनयान्विताः । जनितानेकलोकार्थाः पुरुषार्था इव त्रयः॥५॥
* पत्तने संघवीपाडावस्थितभाण्डागारे विद्यते पुस्तिकेयम् । प्रमृष्टाक्षरत्वात् खण्डितप्राया इयं प्रशस्तिः। + पुस्तकमिदं पत्तने संघवीपाडासत्कभांडागारे विद्यमानमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org