________________
७०
जैनपुस्तकप्रशस्तिसङ्ग्रह । [पुस्तकेऽत्र लिपिक; त्रिषु स्थानेषु लेखनसमाप्तिसमयो निर्दिष्टः । तत्र(१) सिद्धप्राभृतटीकाप्रान्ते इत्थमुल्लिखितम्
“संवत् १४४४ वर्षे फागुण शुदि ५ बुधे अयेह श्रीपत्तने । मंगलं महाश्रीः । शिवमस्तु । त्रिपाठि नागशर्मेण(र्मणा !) लिखितं ॥" 5 (२) सिद्धपाहुडमूलग्रन्थप्रान्तभागे
"मंगलं महाश्रीः । संवत् १४४४ वर्षे फागुणशुदि ६ गुरौ त्रिपाठि नागशर्मेण (र्मणा !) लिखितम् ॥"
(३) जीवाभिगमटीकाप्रान्ते
___ "समाप्ता जीवाभिगमाध्ययनशास्त्रप्रदेशटीका कृतिहरिभद्राचार्यस्येति ॥ छ ॥ ग्रंथाग्रं० १२०० ॥ छ । संवत् 10१४४४ वर्षे फागुणशुदि १५ शनी अद्येह श्रीपत्तने ॥"
[७२] श्रीमालवंशीय-श्रे० सामंत-लेखित-त्रिषष्टिशलाकापुरुषचरित्र [तदन्तर्गत
नेमिचरित] पुस्तकप्रशस्तिः ।
[लेखनकाल सं० १३७५ विक्रमाब्द] 15 श्रीमालवंशे प्रागासीद् देहडिदेहिनां वरः पुण्यपाल-देवपालौ सुतौ तस्य बभूवतुः ॥ १ ॥
यशो नामा पुण्यपालतनयस्तस्य सूनवः । सांताकः सिंधुलश्चैव ऊदलः सांग एव च ॥ २॥ त्रयः सांताकतनया आंबडः शूर एव च । सलक्षो लब्धलक्षोऽभूत् सर्वभूतदयापरः ॥ ३ ॥ सिंधुलधर्मपन्यासीत् सूहवदेवी नामतः । सुतः सामन्तनामाऽभूत् यस्तत्त्वज्ञशिरोमणिः ॥ ४ ॥ अंगजौ ऊदलस्यापि आभड आसकस्तथा । त्रयः सांगाकसुता वीसलो वयजा-देदको ।। ५॥ चाहडो देपालसुतः सीहडश्चाहडांगजः । त्रयः सीहडतनयाः सांगणः सुकृतांगणः ॥ ६ ॥ सहजपालः सजना सांगणांगरुहाः क्रमात् । शूराकः प्राहादश्चैव श्यामलः सालिगस्तथा ॥७॥ श्रीमान् विवेकसिंहाख्यः पूर्णिमापक्षमंडनं । तत्पट्टे श्रीरामचंद्रप्रभुः सप्रतिमोऽभवत् ॥ ८॥ तत्पट्टमंडनं श्रीमान् धीरसिंहाभिधः प्रभुः । तच्छिष्योऽभयसिंहाख्यगुरुभविकसम्मतः ॥ ९॥
तस्मै श्रीगुरवेऽदत्त पित्रोः श्रेयःकृते सुधीः । सामंतो नेमिचरितं पुस्तकं खस्तिकारणम् ॥ १० ॥ 25 काले विक्रमतो बाण-मुनि-यक्षमिते सति । रोहेलायां स्थित इदं सामंतः सुकृतं व्यधात् ॥११॥
[७३] प्राग्वटज्ञातीय-श्रे० जिंदा-लेखित-आवश्यकनियुक्ति-पुस्तकप्रशस्तिः ।
[लेखनसमय सं० १२१२ विक्रमाब्द] संवत् १२१२ मागसिरसुदौ १० रवौ लिखितं उमता व्यास (?)। * पुस्तकमिदं पत्तने संघवीपाडावस्थितभाण्डागारे विद्यते । + पत्तने संघवीपाडावस्थितभाण्डागारे विद्यते पुस्तकमिदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org