________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
६९
पल्लीवाल इति ख्यातो वंशः पर्वोदितोदितः । सोऽस्ति स्वस्तिकरो धात्र्यां यस्य कीर्तिर्ध्वजायते ॥ २ ॥ पुरा तत्र पवित्रोऽभूद् वंशे मुक्ताफलोज्ज्वलः । वीकलाख्य इति श्रेष्ठी सतां हृदि गुणैः स्थितः ॥ ३ ॥ तत्पली रत्नदेवीति पवित्रा पुण्यशालिनी । गुणमाणिक्य मंजूषा तुषारद्युतिशीतला ॥ ४ ॥ पुत्री तयोः सूल्हणिनामधेया सुश्राविका शीलवती बभूव । या देवपूजा निरता गुरूणां पादाम्बुजा सेवनराजहंसी ॥ ५ ॥
पुरा पवित्रस्तत्रासीद् वंशे मुक्ताफलोज्वलः | योगदेव इति श्रेष्ठी सतां हृदि गुणैः स्थितः ॥ ६ ॥ आमदेवश्च वीरश्च तनयौ सनयौ ततः । कपर्धा - माक-साढाका वीरपुत्रास्त्रयोऽभवन् ॥ ७ ॥ साढाकस्य ततो जज्ञे पुत्रश्चाम्ब्रकुमारकः । परोपकारदाक्षिण्यगाम्भीर्यविधिसेवधिः ॥ ८ ॥ जयन्तीत्याख्यया जज्ञे गेहिनी तस्य सत्यवाक् । तत्सुतः पासडो जज्ञे धांइ रूपी सुते तथा ॥ ९ ॥ ततः सत्पुण्यपात्रस्य पवित्रस्य महात्मनः । सुधियः पासडस्याभूत् पत्नी पातुरिति प्रिया ॥ १० ॥ तस्याः पुत्रास्त्रयो जाताः पुमर्था इव जंगमाः । जगत्सिंहो वज्रसिंहस्तथा मदनसिंहकः ॥ ११ ॥ माल्हणिर्जगत्सिहस्याभवत् सद्धर्मचारिणी । सूल्हणिर्वज्र सिंहस्य बभूव प्रेयसी ततः ॥ १२ ॥ श्रीपूज्योदयचन्द्राख्यपट्टस्योद्योतकारिणाम् | श्रीदेवसूरीणां [ सम्यगुप ] देशेन भक्तिभाक् ॥ १३ ॥ ल्हणिश्राविका सेयं कुर्वाणा धर्मसंग्रहं । श्रीजयदेवसूरीणां विशेषाद् भक्तिशालिनी ॥ १४ ॥ उपमितिभवप्रपंचस्योद्धारस्यात्र पुस्तिकामेताम् । सा पातूः खश्वश्रू श्रेयोऽर्थं लेखयामास ॥ १५ ॥ यावदुदयाद्रिवेद्यां दिवसकरो भानुपावकसमक्षं । परिणयति दिक्कुमारीर्नन्दतु सत्पुस्तकस्तावत् ॥ १६ ॥ शुभमस्तु श्री श्रमण संघस्य मंगलं महाश्रीरिति ॥
[ ७१]
5
Jain Education International
10
ऊकेशवंशीय श्रे० देवसिंह-लेखित जीवाभिगमाध्ययन टीका- पुस्तकप्रशस्तिः * । [ लेखनकाल सं० १४४४ विक्रमाब्द ]
20
ऊकेशो भद्रेश्वरगोत्रे नारायणीयशाखायाम् । वृद्धो वणिगिति विदितो नरसिंहः साधुवर आसीत् ॥ १ ॥ तस्य च भार्यामोतीतनृदुद्भवाः सप्त सांगणः प्रथमः । छीता- लाखा- देदा तिहुणा - रामाक-धानाख्याः ॥२॥ सांगणवधूर्धनश्रीः पुत्रौ द्वावेव तयोश्च नरदेवः । जगसिंहश्च लघुवधूर्जयत सिरीरंगजास्त्रयश्चामी ॥ ३ ॥ आद्यैौ हि गोना वइजाभिधानौ तृतीयबन्धुः किल देवसिंहः । यो देवगुर्वादिकधर्मकायें कृताभियोगः शुभभाग्ययोगः ॥ ४ ॥
वहजाकस्य तु भार्या जयश्रीरंगजाश्चतुः संख्याः । साधुवरनागसिंह छाजल - नरवर्म-दाख्याः ॥ ५ ॥ साधोश्च देवसिंहस्य भार्या कर्मसिरिरिति । त्रयाणां पुरुषार्थानां पात्रमास्ते कुलं ह्यदः ॥ ६ ॥ श्रीमत्तपागणनभोऽङ्गणभास्कराणां श्रीदेवसुन्दर गुरुत्तमसूरिराजाम् ।
1
धर्मोपदेशवशतोऽवगताप्तवाक्यः खोपार्जितार्थनिवहस्य फलं जिघृक्षुः ॥ ७ ॥
For Private & Personal Use Only
15
सुधीः सहस्रानिह देवसिंहो मन्थाग्रतः पञ्चदशप्रमाणान् । श्रीताडपत्रेषु जिनागमस्यालेखयत् संप्रति पुस्तकेऽत्र ॥ ८ ॥ 30 सिद्धप्राभृत- जीवाजीवाभिगमवृत्तिकेऽलेखयत् ।
अणहिलपाटकनगरे त्रिं वर्द्धि- वौद्धीन्दु-मितवर्षे ॥ ९ ॥
* सिपाहुड - जीवाभिगमाध्ययनप्रन्थद्वयात्मकं पुस्तकमिदं पत्तने संघवी पाडासत्कभाण्डागारे विद्यमानमस्ति ।
25
www.jainelibrary.org