SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । यावद् व्योमारविन्दे कनकगिरिमहाकर्णिकाकीर्णमध्ये, विस्तीर्णोदीर्णकाष्ठातुलदलकलिते सर्वदोज्जम्भमाणे । पक्षद्वन्द्वावदातौ वरतरगतितः खेलतो राजहंसौ, तावजीयादजस्रं कृतियतिभिरिदं पुस्तकं वाच्यमानम् ॥ ८॥ [६९] ऊकेशवंशीय-श्रे० हरिपाल-लेखित-कल्पसूत्र-कालिकाचार्यकथानक-पुस्तिकाप्रशस्तिः । [लेखनकाल सं० १३३५ विक्रमाब्द ] -इति श्रीकालिकाचार्यकथानकं समाप्तम् । सं० १३३५ वर्षे आषाढशुदि "गुरौ प्रह्लादनपुरे लिखितः । ऊकेशान्वयशाखिनि स्फुरदुरुच्छायानपायश्रिया शौराणीति फलाभिलाषिभिरलं..... माश्रिता विश्रुता । 10 एतस्यामभवद् भवस्थितिहृति श्रीजैनपादाम्बुजे भंग......... ............[॥१॥ 15 ...............सुतो महणसिंहोऽस्ति तयोः सुगुरुभक्तिमान् ॥ ११ ॥ स्थिरदेवाभिधानेन षष्ठो गुणधराङ्गभूः । देपालप्रमुखाः पुत्रास्तस्य थेहीसमुद्भवाः ॥ १२ ॥ सप्तमो हर्षदेवोऽस्ति हर्षदेवीह हर्षदा । तस्य पत्नी ततः पुत्रा नरसिंहादयो यथा ॥ १३ ॥ धांधूनामाऽभवद् भ्राता कनीयान् गुणधरस्य च । षेढाभिधानस्तत्पुत्रः पवित्रो धर्मकर्मणा ॥ १४ ॥ इमा दुहितरस्तिस्रो जाता गुणधरस्य च । कर्मिणिः प्रथमा तत्र लरिमणि हरिसिणिस्तथा ॥१५॥ __ अथ गुरुक्रमःवादिचन्द्र-गुणचन्द्र विजेता विग्रहक्षितिपबोधविधाता । धर्मसूरिरिति नाम पुराऽऽसीत् विश्वविश्वविदितो मुनिराजः ॥ १६ ॥ आनन्दसूरिशिष्यश्रीअमरप्रभसूरिदेशनां श्रुत्वा । हरिपालाभिधपुत्रः कुलचन्द्रस्येति चिंतितवान् ॥ १७॥ चपलाऽचपला लक्ष्मीः स्थिरस्थाननियोगतः । मतिमन्तः प्रकुर्वन्ति गुर्वन्तिकमुपागताः॥१८॥ इयं पर्युषणाकल्पपुस्तिका खस्तिकारिणी । लिखिता हरिपालेन खमातृश्रेयसे ततः ॥ १९ ॥ प्रतिवर्ष गुरुहर्ष संघेन श्रूयमाणशब्दार्था । मुनिवृन्दवाच्यमाना नंदतु वरपुस्तिकाऽन्तर्गता ॥ २० ॥ [७०] पल्लीवालवंशीय-श्रा० सूल्हणि-लेखित-उपमितिभवप्रपञ्चाकथासारोद्धार पुस्तकप्रशस्तिः । [लेखनकालो नोल्लिखितः; अनुमानेन १३ शताब्दी शायते ] श्रीमन्तस्ते सतां सन्तु तीर्थेशाः खस्तिकारणं । अपारभवकान्तारसमुत्तारितजंतवः ॥ १॥ * पत्तने संघवीपाडासत्कभाण्डागारे विद्यते इयं पुस्तिका । + अग्रेतनस्य पत्रस्य नष्टखात् खण्डिताऽत्रेयं प्रशस्तिः । 1 पुस्तिकेयं पत्तने संघवीपाटकस्थितज्ञानभाण्डागारे विद्यते। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy