________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
तस्यां गजः समभवल्लषमाभिधानः श्राद्धः प्रबुद्धगुणरत्नविभूषितांगः ।
येन खराः सफलतामिह सिद्धिशैले लात्वा सुरेशपदमापि सुपुण्यभाजा ॥ २ ॥ तत्पत्नी समधर्मकर्मकुशला भोपीति नाम्ना बभौ मूर्ता कल्पलतेव कोविदजनैर्या गीयतेऽहर्निशम् । दंपत्योर्गृहधर्म्ममाश्रितवतो जज्ञुस्त्रयो नंदनाः, पद्माख्यः प्रथमस्ततो निजगुरौ भक्त्युत्वणः पेथडः ॥ ३ ॥ माकंदशालतुलनां कलयंस्तृतीयः, सौरभ्यशालितवपुः पृथुलांशचंगः ।
5
-
आभाभिधः सुमुनिपात्र नियोजितख - खो व्याघ्रकादिमसुतैः सफलैर्वृतोऽभूत् ॥ ४ ॥ इतश्च – सद्भक्तिभावितमनः सुमलेखराजीप्रारब्धसादरनतिः कमनीयकान्तिः । सौवांह्रिचाररचितावनितारशान्तिश्चांद्रे कुले समभवज्जिनचंद्रसूरिः ॥ ५ ॥ विशददशनमालास्फारदीप्तिप्रचारस्फुटघटितच कोरप्राणिदृष्टिप्रमोदः । रजनिपतिसगोत्रस्तारकाधिष्ठितः श्रीजिनकुशलयतीन्द्रस्तत्कपट्टेऽजनिष्ट || ६ | यच्छेमुषीं समवलोक्य बभूव देवाचार्योऽपि संततमनिंदितवाग्विलासः । संजातकंप इव भूमितले स नंद्यात् आचंद्रमादरनुतो जिनपद्मसूरिः ॥ ७ ॥ तेषां निदेशादमरप्रभायोपदेशमाला दिसुवृत्तिपुस्तम् । संलेखयामास विशुद्धवर्ण आभाभिधः श्राद्धवरप्रमोदात् ॥ ८ ॥ यावत् क्षमांगना दधे ताडंकौ चंद्रभास्करौ । तावन्नद्यादिदं पुस्तं वाच्यमानं सदा बुधैः ॥ ९ ॥ ॥ सा० आभालेखित पुस्तिका प्रशस्तिः ॥
[ ६८ ]
ऊकेशवंशीय-श्राविकाहादू-लेखित -[ मलयगिरिविरचित ] सप्ततिकाटीकापुस्तकप्रशस्तिः * ।
[ लेखनकाल १४६२-६५ विक्रमाब्द ]
- संवत् १४६२ वर्षे माघशुदि ६ भौमे अधेह श्रीपत्तने लिखितम् ॥ छ ॥ शुभं भवतु ॥ ऊकेशवंशसंभूतः प्रभूतसुकृतादरः । वासी सांडउसी मामे सुश्रेष्ठी महुणाभिधः ॥ १ ॥ मोधीकृताघसंघाता मोधीरप्रतिघोदया । नानापुण्यक्रियानिष्ठा जाता तस्य सधर्मिणी ॥ २ ॥ तयोः पुत्री पवित्राशा प्रशस्या गुणसम्पदा | हादूर्दूरीकृता दोषैधर्मकर्मैककर्मठा ॥ ३ ॥ शुद्धसम्यक्त्वमाणिक्यालंकृतः सुकृतोद्यतः । एतस्या भागिनेयोऽभूद् ओकाकः श्रावकोत्तमः ॥ ४ ॥ श्रीजैनशासननभोऽङ्गणभास्कराणां श्रीमत्तपागण पयोधिसुधाकराणाम् । विश्वाद्भुतातिशयराशियुगोत्तमानां श्रीदेव सुन्दर गुरुप्रथिताभिधानाम् ॥ ५ ॥ पुण्योपदेशमथ पेशलसन्निवेशं तत्त्वप्रकाशविशदं विनिशम्य सम्यक् । एतत्सु पुस्तकमलेखयदुत्तमाशा सा श्राविका विपुलबोधसमृद्धिहेतोः ॥ ६ ॥ बाणांगवेदेन्दुमिते ( १४६५ ) प्रवृत्ते संवत्सरे विक्रमभूपतीये । श्रीपतनाह्नानपुरे वरेण्ये श्रीज्ञानकोशे निहितं तयेदम् ॥ ७ ॥
एतत्प्रशस्तियुक्तं ताडपत्रीयपुस्तकं पत्तने संघवीपाडाव स्थित भाण्डागारे विद्यते । मुद्रिता चेयं प्रशस्तिः श्रीमच्चतुरविजयमुनिवरैः ate 'चत्वारः कर्मग्रन्थाः ' नामक ग्रन्थप्रस्तावनायाम् पृ० २ ।
Jain Education International
૭
For Private & Personal Use Only
10
15
20
25
30
www.jainelibrary.org