________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । इतश्च-इहैव वंशे जिनपादभक्तः सुश्रावको वोसकसंज्ञकोऽभूत् ।
___ सुधर्मकर्मोद्यतमानसा च तस्याग्र्यमार्याऽजनि सेसिकाख्या ॥ ६॥ तस्याः साहडसंज्ञकः सुचरितः सूनुर्महात्माऽभव-च्छेष्ठा चारुचरित्रलक्षणवती पुत्री च लक्ष्मींगिता । या लक्ष्मीरिव केशवस्य दयिता प्रद्युम्ननानो गृहे, विख्याताऽऽत्मगुणोत्करेण जनताचेतश्चमुत्कारिणा ॥ ७ ॥ अपत्यसप्तकं तस्या बभूव गुणमंदिरम् । सुतास्त्रयो महात्मानश्चतस्रः पुत्रिकास्तथा ॥ ८॥ ज्येष्ठः सूनुरुदारतादिभिरिह प्राप्तप्रसिद्धिर्गुणै-रग्र्यैराम्रयशोभिधो जिनमहव्यासंगतनिष्ठधीः । खच्छंदं विचरन् वरेण्यकरिवद्यः कीर्तिगंधाहतैः, सद्दानासवलिप्सयाऽर्थिमधुपवातैः सदा सेव्यते ॥ ९॥
वोढुं नियुक्तोऽखिलकार्यभारधुरं सुधौरेय इव खपित्रा।
दम्योऽपि यस्तां वहति स्म धीमान् विश्रब्धचेताः परकार्यहेतोः ॥ १० ॥ जिनमानरतो नित्यं द्वितीयो धवलाभिधः । सद्गुणाकरचाक्षुष्यस्तृतीयो जेसलाहयः ॥ ११ ॥
यशोमतिज्येष्ठसुता वरेण्या तथापरा श्रीरिति चारुपुत्री।
सुशीलयुक्ताऽथ च रुक्मिणीति राजीमती तुर्यसुता बभूव ॥ १२ ॥ ततश्च-श्रीवर्द्धमानाख्यपुरे वरिष्ठे संतिष्ठमाना सदयाऽन्यदाऽथ ।
श्रीदेवभद्राख्यमुनींद्रमूले शुश्राव लक्ष्मीर्वरदानधर्मम् ॥ १३ ॥ 15 तद्यथा-विज्ञाय प्रबलप्रभंजनचलद्दीपांकुरालीसमं, लोके जीवितयौवनार्थविषयप्रेमाद्यशेषं सदा ।
धीमद्भिर्घवपुण्यसंग्रहकृते कर्मक्षयकार्थिभिः, कर्तव्यः सुनयार्जितात्मविभवैः सदानधर्मोद्यमः ॥ १४ ॥ ज्ञानोपष्टंभाभयविभेदतस्त्रिविधमुक्तमिह दानम् । जिनमतजलधावाद्यं गृहिणां तत्रापि बहुफलदम् ॥ १५॥ यतः-मोहांधकारावृतचित्तदृष्टानप्रदीपो वृषवर्त्मदर्शी । भवार्णवाज्ञानजले निमज्जन्नृणां भवेज्ज्ञानमिहाग्र्यपोतः ॥१६॥
ज्ञानं मुक्तिपुरीप्रतोलिपरिघप्रध्वंसनानेकपो, ज्ञानं नाकगिरीदरम्यशिखरप्रारोहसोपानकं । ज्ञानं दुर्गतिदुर्गकूपपततामालंबनं देहिनां, ज्ञानं संशयपादपोरुविपिनच्छेदे कुठारः पटुः ॥ १७ ॥ तस्यैवमाद्यैर्यतिपुंगवेंदोश्चंचद्वचश्चारुमरीचिभिः सा । संबोधिता कैरविणीव पश्चादुज्जूभमाणास्यसरोरुहेह ॥१८॥ लेखयित्वाऽऽत्मसारेण विशेषावश्यकस्य हि । वृत्तेरिदं द्वितीया तस्मै सद्गुरवे ददौ ॥ १९ ॥
अपनयति तमिश्रं यावदकेंदुबिम्बं दिनरजनिनिलीनं तीव्रशीतांशुसंधैः ।
इह जगति वरिष्ठं पुस्तकं तावदेतद्विबुधमुनिजनौधैः पठ्यमानं प्रनंद्यात् ॥ २० ॥ श्रीविक्रमाद............."धि-ग्रह-केंद्रसंख्यका............... तस्यां (1) समर्थितं प्रवरगुरुदिवसे ॥२१॥ तद्गतात्मा विलिख्येदमाशादित्याभिधो द्विजः । निजप्रज्ञानुसारेण प्रशस्तिमकरोदिमाम् ॥ २२ ॥
[६७] ऊकेशवंशीय-सा० आभा-लेखित-उपदेशमालादि-प्रकरणपुस्तिकाप्रशस्तिः ।
[लेखनकाल १४ शताब्दी ] ऊकेशवंशे विदितप्रकाशे चार्वी तुलां बिप्रति शीतभानोः ।
जज्ञे बुधः सर्वविधिक्रियासु श्राद्धाग्रणी लोहटनामकोऽत्र ॥ १॥ ___ * एतत्प्रशस्तियुक्ता पुस्तिका पुण्यपत्तने भां० प्रा० सं० राजकीयग्रन्थसंप्रहे विद्यते । सूचिक्रमांक २६६ सन् १८७१-७२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org