Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text ________________
पण्डितदुर्वेकमिप्रकृतो प्र. ११४. पं. १२- अनेन सहकारीत्यत्रैकार्थः सहशब्दो वार्तिककारेण दर्शितः । कथं तर्हि सह युगपत्कुर्वन्त [११४.१२] इत्ययं व्याचष्टेति चेत्, उक्तमत्र पूर्वमिति न पुनरुच्यते । एवंविध [११४,१३] इत्येकार्थकारी । वढ्यादिसहकारीशीतक्षणादिलक्षणे कार्याभिसन्धिनाऽपचीयमान[११४.१७] ग्रहणम् । 5 यावते[११५ ८ति तृतीयान्तप्रतिरूपकोऽयं निपातो यस्मादित्यस्मिन्नर्थे, किंत्वेतस्मिन्नर्थे वा अनुवर्तते। सहिता अन्येन युक्ताः क्षणमात्रविलम्बिनः [११५.९] क्षणमात्रस्थायिनः । तदवस्थाया प्राक् पूर्व पश्चादुचरकालं 'पृथक् तद्विकलावस्थामां भावः [११५.१०] सद्भावः ।
ननु यदि स्वहेतोः समर्थस्योत्पत्तिस्तहि कथमनन्तरमुक्तम्-' ते समर्थाः स्वभावतः 10 [११५.६] ' इत्यत आह परमते[११५.१६]ति । भवत्यस्मात्कार्यमिति भावो
हेतुस्तस्मादिति । तदपि त्वया कम्मान्न व्याख्यातमिति चेत् । न, स[49a]'मर्थः कुत उत्पन्न इत्यस्य व्याघातप्रसंगात् । सहकारिभ्यः सामर्थ्यमिच्छन्ती[११५.१७ति च मीमांसकमताश्रयणेनाह न तु नैयायिका एवमिच्छन्ति येन तन्मतोपग्रहेणाप्येतत्संगच्छेत,
सहकारिसाकल्यस्यैव तैः सामर्थ्यरूपत्वेनेष्टेः । तथा चाह-जल्पमहोदधिः “सहकारि15 साकल्यं तद्वतः सामर्थ्य वैकल्यं त्वसामर्थ्यमि"ति ।
समर्थ [११५.२५] विवक्षितकार्यक रणे शक्तम् । आवश्यकं जननमि[११६.११]त्यस्य शब्दस्य तु सिद्धिः "पूर्व न जाने ।
कुशूलञ्च तदपनेतृपुरुषप्रयत्नश्च क्षेत्रनयनं च प्रकिरणं[११६.१४] च प्रकरणात् क्षेत्रे प्रकिरणं चेति द्वन्द्वं कृत्वा पश्चादादिशब्दे[न] बहुव्रीहिः कार्यः । 20 प्रकिरणमित्ययमौणादिकः शब्दो न तु किरतिर्म्युडन्तो द्रष्टव्यस्तदा गुणस्याप्रतिषेधेन प्रकरणमिति प्राप्तेरसाधु त्यप्रसंगात् । .
समेत्य [११६.१९] योग्यदेशे स्थित्वा सम्भूय आयेन सह मिलित्वा प्रत्ययैः सहकार्युपादानरूपैः।
ननु च ' अतएव तयोरवस्थयोरित्यादिना प्रत्यभिज्ञायाः प्रामाण्यमपोदितमेव तत्कथं 25 न पुनरुक्ते(तमि)त्याह-पूर्वञ्चे[११७.९]ति । एतदपि[११७.११] सारूप्य१. पृथक्त्व
२. मिच्छति
S ३ . अवश्यंजनकत्वम् S ४. द्रष्टव्यम्-पृ. ३५४ पं. ८-'अवश्यमो भावः इत्यादिना न जाने इत्यन्तेन कृता',
एतदर्थकः पाठवुटितोत्र भाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523