Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 433
________________ पण्डितदुवैकमिश्रकृतो [ पृ. १८६. पं. ८-. देशकालव'स्तुनियत [१८६.८] इति हेतुमावेन विशेषणम् । प्रतिज्ञा . [१८६.१०] साध्यनिर्देशस्तस्याः । कृतकत्वादिपरिजिहीर्षया विशिंसन्नाह-व्यावृत्तितोऽपी[१८६.१२]ति । प्रदेशमात्रमि[१८६.१४]ति ब्रुवता परेण प्रदेशत्वसामान्यं हेतुः प्रदेशविशेषो धर्मीति दर्शितम् । 5 योऽसौ केवल[१८६.२ ३]इति । पुरोऽवस्थितघटजातीय इति द्रष्टव्यम् तस्यैव प्रकृतत्वात्। लिङ्गवज्ज्ञापकत्वादवश्यप्रत्येतव्यमित्यभिप्रायेणाह-लिङ्गभूतस्य [१८६.२५] केवलस्य प्रदेशस्य [१८६.२६] प्रतिपत्ताविति पूर्ववत् प्रतिज्ञार्थंकदेशताप्यत्र द्रष्टव्या । ततः केवलप्रदेशालिङ्गीभूतात् । . विषयविषयिभावेने[१८७.१०]तीत्थंभूतलक्षणा तृतीया । तथाविधाऽभि10 प्रायानभिज्ञा(ज्ञ)तयेति' पाठोऽवदातो यथाऽभिधानाभिप्रायानभिज्ञा(श)तयेति पाठे तु महान् क्लेशः। प्रमेय त्वेन [१८७.१९] साध्यत्वेन । आदिशब्दादन्योन्याभावप्रध्वंसाभावयोन विरोधो मीमांसकमतेऽत्यन्ताभावस्य च । एते [१८८.३] प्रागभावादिरूपा भेदाः इतरप्रतीतेश्चा[१८८.६]भावांशप्रतीतेश्च । 15 तत्संयोगे [१८८.६] तेनेन्द्रियेण प्रत्येतव्यस्य सम्बन्धे । इत्थं तु [१८८.५] यत्प्रतीयत [१८८.६] इति प्रकरणात् । तदसंयोगहेतुकमि[१८८.७]न्द्रियासम्बन्धहेतुकम् । 'ज्ञानमिति प्रकृतत्वात् । यद्वा तत्तथाविधं ज्ञानं असंयोगहेतुकं प्रकरणादिन्द्रियासंयोगहेतुकं न भवतीति । ननु भावांशयोर्भेदात् कथं 'तदन्यभाव एवे'त्युक्तमाचार्येण इत्याशङ्कयाह-एवं मन्यत [१८८.१५] इति । तद्रूपवैकल्यात् 20 [१८८.१७] घटरूपविरहितत्वात् । तद्रूपवैकल्यं [१८८.१७] घटरूपवैकल्यम् । तदभावे [१८८.१८१ घटरूपवैकल्याभावे । तस्य घटादन्यस्य भावस्य प्रदेशादेः । तथा च [१८८,२०] तस्यापि घटरूपत्वप्रकारे सति। अभावांशेऽपि घटाभावोऽपि न सिद्धयति घटात्मनीवेति भावः । तत्संयोग एव [१८८.२ ४] अन्यभावसंयोग एव। विचारयता [१८९.२] मयेति बुद्धिस्थम् । अवधार्यो [१८९.३] ज्ञातव्यः । 25 सकलत्रैलोक्यविलक्षणं [१८९.११] सर्वपदार्थव्यावृत्तम् । असांकर्येण [१८९.१२] अमिश्रस्वेन। संप्र मुग्धाकारं [१८९.५] संदिह्यमानसर्वाकारम१. देशकागवस्थानियतोS २. अभिप्रायानभिज्ञतया S। ३. न सिद्धयेत् S.। . १. सम्मुग्धाकार,S. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523