Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 509
________________ आवायंकीति FR-Re .: सत्यम् , इदमप्यस्ति-स्वभावस्तेषां कार्यक्रियाधर्मा तेन समस्तप्रत्ययानाम् अकृत्वा कार्य नोपेक्षापत्तिरिति । सोऽक्षेपक्रियाधर्मा 'स्वभावस्सदैवान्त्यावस्थायामुत्पन्नः, . आहोस्वित् प्रागपि आसीत् ? आसीत् , अप्रच्युतानुत्पन्नानां स्थिरैकस्वभावानां कस्मिंश्चित्काले कस्यचित्स्वभावस्वाभावविरोधात् । ___ तत् किमिदानी माता च वन्ध्या च अस्ति ? को वास्य भाषितस्यार्थः-प्रागपि अक्षेप- 5 क्रियास्वभावः कार्य च न करोति इति । [ T. 363 a] - सहितः स्वकार्यजननस्वभावः न केवल इति चेत् । अन्यस्तहि केवलोऽन्यश्च । सहकारिसहितः स्वभावभेदात् । स्वभावभेद एव हि भावभेदस्य लक्षणम् । नहि स साहित्येपि पररूपेण कर्ता स्यात् । स्वरूपं च तस्य प्रागपि तदेवेति न कथञ्चित कार्यक्रियाविरामः । 10 यस्यापि भावः क्षणिकः तस्यापि स कथं न तादृशः, केवलस्य अजनकत्वात ? न । अजातत्वादजनकः । जात एव कथं न भवति ? क्षणिकत्वात् । उक्तं याहशस्य क्रिया । सं कथमेकक्षणभावी अन्यथा भवेत् । यश्च भवति स एव न भवतीति नायं प्रसङ्गः कारकाकारकयोः स्वभावतत्कारणयोर्विरोधात् । योपि मन्यते--अक्षेपक्रियाधमैंव स तस्य स्वभावः, न स साहित्यमपेक्षते, कार्य तु 15 प्रत्ययान्तरापेक्षमिति सहितेभ्य एव जायते न केवलेभ्य इति-तस्यापि कथं- 'स भाकः केवलोपि करोत्येव,' ' कार्य च तस्मान्नोत्पद्यते । इति तदवस्थो विरोधः । न केवलः करीत्येवेति चेत् । कथमिदानीमझेपक्रियास्वभावः । ननु एतदेव परिदीपितं भवति'करोत्येव । इति कार्य चायं केवलोपि समर्थः सन् परमपेक्षमाणं कथमुपेक्षेत ? परमनाहत्यैतत प्रसह्य कुर्यात् [ T. 363b ] । एवं हि अनेनात्मनः सामर्थ्य दर्शितं भवति । 20 कार्य परमपेक्षत इति-ततः केवलादनुत्पत्तिरुक्ता भवति, केवलोपि समर्थस्वभाव इति ततः उत्पतिः-एते. चैकत्र कथं स्याताम् ? तदयमीग्रॅशल्यवितुद्यमानमर्मा विक्लवं विक्रोशतीत्युपेक्षामेवाहति । ___ तस्मादिदमेकार्थक्रियालक्षणं सहकारित्वं क्षणिकानामेव भावानाम् । अक्षणिकानां पृथक क्रियाऽसंभवात् , संभवे वा सहकारित्वनिश्चयाऽयोगात् ।। 25 यत्र तु सन्तानोपकारेण भावाः हेतुतां प्रतिपद्यन्ते, यथा तण्डुलबीजादिभ्य ओदना. हुरादिजन्मनि दहनोदकादयः। तत्र सन्तानाश्रयेण विशेषोत्पादने प्रत्ययानां सहक्रियोच्यते न द्रव्याश्रयेण, क्षणिके द्रव्ये विशेषस्यानुत्पत्तेः । नहि तण्डुलादीनां विशेषानुत्पतौ १. उत्पादा. पृ० १४. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523