Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text ________________
आचार्यधर्मकीर्तिकृतं .
[पृ. २००-२०६ तस्माद् यथोक्तादेवानुपलम्भात् क्वचित् कदाचित् कस्यचिदभावसिाद्धः ।
अन्यभावविषयस्योपलब्धिरपि तदभावस्य साधिकेष्टैव न तु लिङ्गत्वेन । तत्रापि अभावस्य पृथक्साध्यत्वे सम्बन्धाभावस्य तुल्यत्वात् । लिङ्गाविर्भावकाल एव तदभावसिद्धेश्च । न हि अन्यस्य भावं 'प्रतिपद्य तत्प्रतिपत्तेस्तदभावेनान्वयव्यतिरेको प्रसाध्य तदभावं प्रतिपद्यते । किन्तर्हि ? तदन्यं प्रतिपद्यमान एव तदभावं प्रतिपद्यते । दर्शना- 5, नन्तरम् । इदमस्ति ', ' इदं तु नास्तीति.' व्यवस्थापनात् । तच तस्य लिभवति यस्यान्वयि व्यतिरेक च, दृष्टान्तासिद्धेः । न हि एवं शक्यं दर्शयितुं । यत्र अन्यभावो- ' पलब्धिः तत्र तदभावः ' इति । तदेकोपलब्धेः क्वचिदपि अभावात् । सामान्येन प्रदर्शने दृष्टान्तेऽपि प्रमाणान्तरं नास्तीति । तस्मात् नैव कुतश्चिल्लिङ्गात् तदभावसिद्धिरिति । सोऽन्यभावः प्रत्यक्षलक्षणेनानुपलम्भेन सिद्धः सन् मूढप्रतिपत्तौ अभावव्यवहारं साधयेद 10 इति [ T. 371 b ] सुचर्चितमेव । . सेयमनुपलब्धिस्त्रिधा । सिद्धे. कार्यकारणभावे सिद्धाभावस्य कारणस्यानुपलब्धिः, व्याप्यव्यापकभावसिद्धौ सिद्धाभावस्य व्यापकस्यानुपलब्धिः, स्वभावानुपलब्धिश्च ।
तत्र कारणव्यापकयोरपि अभावव्यवहारः तदन्यभावसिद्धयैव सिध्यति । कारणव्यापकाभावः तथासिद्धः सन् कार्यव्याप्ययोरभावम् अभावव्यवहारं वा साधयति । 15 स्वभावानुपलब्धौ तु अभावव्यवहार एव साध्यते ।
यदि कारणव्यापको तदन्यभावसिद्ध्या अनुपलब्ध्या सिद्धासद्वयवहारौ अन्यस्य अभावम् अभावव्यवहारं च साधयतः । सा च तयोरुपलब्धिलक्षणप्राप्तावेवासद्वयवहारस्य साविका इति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षेऽर्थे प्रयोगः ? नैव प्रयोगः प्रमाणतया, लिङ्गस्यानिश्चयात् । केवलं कारणव्यापकयोर्हि सिद्धसंबन्धयोर्ययभावः 20 परस्यापि अवश्यं नियमेनाभावः इति एतस्य दर्शनार्थमेते क्वचित् प्रयुज्यते इति ।
एष एव पक्षधर्मोऽन्वयव्यतिरेकवान् इति तदंशेन व्याप्तः विलक्षण एव त्रिविध एव हेतुर्गमकः, स्वसाध्यधर्माव्यभिचारात् ।
षड्लक्षणो हेतुरि[T. 372 a]त्यपरे । त्रीणि चैतानि अबाधितविषयत्वं विवक्षितैक. . संख्यत्वं ज्ञातत्वं च । तत्र अबाधित विषयत्वं तावत पृथा लक्षणं न भवति, बाधाऽ- 25 विनाभावयोर्विरोधात् । अविनाभावो हि सत्येव साध्यधर्मे भावो हेतोः। स हेतुस्तलक्षणः . धर्मिणि स्यात् । अत्र च साध्यधर्मः कथं न भवेत् ?
१. Comp. न्यायमं० पृ० ११०, ११३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 515 516 517 518 519 520 521 522 523